Table of Contents

<<7-3-18 —- 7-3-20>>

7-3-19 हृद्भगसिन्ध्वन्ते पूर्वपदस्य च

प्रथमावृत्तिः

TBD.

काशिका

हृद् भग सिन्धु इत्येवम् अन्तो ऽङ्गे पूर्वपदस्य उत्तरपदस्य च अचामादेरचो वृद्धिर् भवति तद्धिते ञिति, णीति, किति च परतः। सुहृदयस्य इदम् सौहार्दम्। सुहृदयस्य भावः सौहार्द्यम्। सुभगस्य भावः सौभाग्यम्। दौर्भाग्यम्। सुभगायाः अपत्यम् सौभागिनेयः। दौर्भागिनेयः। कल्याण्यादिषु सुभगदुर्भगेति पठ्यते। सुभग मन्त्रे इत्युद्गात्रादिषु पठ्यते। तत्र उत्तरपदवृद्धिर् न इष्यते। महते सौभगाय। छन्दसि सर्वविधीना विकल्पितत्वात्। सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः, सक्तुसिन्धुषु भवः साक्तुसैन्धवः। पानसैन्धवः। सिन्धुशब्दः कच्छादिषु पठ्यते, तेन तदन्तविधिरिष्यते इति अण्प्रत्ययः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1117 ह्मद्भग। ह्मदाद्यन्त इति। ह्मत्, भग, सिन्धु-एतदन्तेषु समासेष्वित्यर्थः। चकारादुत्तरपदस्येत्यनुकृष्यते। तदाह–पूर्वोत्तरपदयोरिति। सौहार्द इति। अणि उभयपदादिवृद्धिः। ऋकारस्य तु आकारो रपरः। सौभागिनेय इति। कल्याण्यादित्वाड्ढकि इनङि उबयपदादिवृद्धिरिति भावः। एतत्प्रसह्गादेव इदं सूत्रमत्रोपन्यस्तम् . `महते सौभगाय' इत्यत्र तु उद्गात्रादित्वाद्भावे अञ्। उत्तरपदादिवृद्ध्यभावश्छान्दसः। सिन्धव इति। अ\उfffदाआ इत्यर्थः।

तत्त्वबोधिनी

934 हद्भद। `पूर्वपदस्य चे'ति चकारेण `उत्तरपदस्य' इत्यनुकृष्यते। तदाह— पूर्वोत्तरपदयोरिति। `महते सौभगाये'त्यत्र तूद्रात्रादित्वादञ्। छान्दसत्वान्नोत्तरपदवृद्धिरित्याशयः। `चटकायाऋ'इति स्त्रीलिङ्गनिर्देशात्पुंसि न स्यादित्याशङ्क्याह। `चटकादैरगि'त्येव सांप्रदायिकः पाठ इति न्यासकृदुक्तिर्वार्तिकविरोधादुपेक्ष्या। तयोरेवेति। तत्र टाबन्तात्तद्धित लुकि `लुक्तद्धितलुकी'ति टापो लुकी जातिलक्षमङीषं बाधित्वा अजादिलक्षणष्टाबिति भावः।

Satishji's सूत्र-सूचिः

TBD.