Table of Contents

<<4-1-126 —- 4-1-128>>

4-1-127 कुलटाया

प्रथमावृत्तिः

TBD.

काशिका

कुलान्यटति इति कुलता। पररूपं निपातनात्। कुलटायाः अपत्ये ढक् प्रत्ययो भवति, तत्सन्नियोगेन च वा इनङादेशो भवति। आदेशार्थं वचनं, प्रत्ययश्च पूर्वेण एव सिद्धः। कौलटिनेयः, कौलटेयः। या तु कुलान्यटन्ती शीलं भिनत्ति, ततः क्षुद्राभ्यो वा 4-1-131 इति परत्वाड् ढ्रका भवितव्यम्। कौलटेरः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1116 कुलटाया वा। इनङ्?मात्रमिति। व्याख्यानादिति भावः। पूर्वेणैवेति। `स्त्रीभ्यो ढ'गित्यनेनेत्यर्थः। कुलानि गृहाणि अटतीति रुलटा। शकन्ध्वादित्वात्पररूपम्। अत्रेति। `कुलटाया वे'ति सूत्रे इत्यर्थः। पक्षे ढ्रगिति। ढ्रगपि कदाचिद्भवतीत्यर्थः। कौलटेर इति। कुलटाया ढ्रकि ढकारस्य एयादेशे `लोपो व्यो'रिति यकारलोप इति भावः।

तत्त्वबोधिनी

933 कुलटाया वा।शकन्धवादित्वात्पररूपपमत एव निपातनाद्वा। सती भिक्षुक्यवेति। अत्र=अनङ्विधौ। तथा चोक्तममरेण—`अथ बान्धकिनेयः स्याद्बन्धुलश्चाऽसतीसुतः। कौलटेरः कौलटीयो भिक्षुकी तु सती यदि। तदा कोलटीनेयोऽस्याः कौलटेयोऽपि चात्मजः'इति। केचित्तु क्षुद्राया अपि इनङा तृतीयं रूपं कौलटिनेय इतीच्छन्ति। पक्षे ढ्रगिति। ढगपि पक्षे भवत्येवेति भावः।

Satishji's सूत्र-सूचिः

TBD.