Table of Contents

<<7-3-20 —- 7-3-22>>

7-3-21 देवताद्वन्द्वे च

प्रथमावृत्तिः

TBD.

काशिका

देवताद्वन्द्वे च पूर्वपदस्य उत्तरपदस्य च अचामादेरचः स्थाने वृद्धिर् भवति तद्धिते ञिति, णिति, किति च परतः। आग्निमारुतीं पृश्निमालभेत। आग्निमारुतं कर्म। यो देवताद्वन्द्वः सूक्तहविःसम्बन्धी, तत्र अयं विधिः। इह तु न भवति, स्कन्दविशाखौ देवते अस्य स्कान्दविशाखः। ब्रह्मप्रजापती ब्राह्मप्रजापत्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1220 वृत्तः `साऽस्य देवता' इत्यधिकारः। अथ प्रासङ्गिकं -देवताद्वन्द्वे च `मृजेर्वृद्धि'रित्यतो वृद्धिरित्यनुवर्तते। `अचो ञ्णिती'त्यतो ञ्णितीति, `किति चे'ति सूत्रं चानुवर्तते। `तद्धितेष्वचामादे'रित्यतोऽचामादेरिति, `ह्मद्भगसिन्ध्वन्ते पूर्वपदस्य चे'त्यतः पूर्वपदस्येति, `उत्तरपदस्य चे'ति सूत्रं चानुवर्तते। तदाह–अत्रेत्यादिना। आग्निमारुतमिति। अग्निश्च मरुच्च अग्नामरुतौ। `देवताद्वन्द्वे चे'त्यानङ्। अग्नामरुतौ देवता अस्य आग्निमारुतम्। अणि अनेन उभयपदादिवृद्धिः अलौकिके विग्रहवाक्ये एव आनङं बाधित्वा `इद्वृद्धौ' इति इत्त्वम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.