Table of Contents

<<4-1-156 —- 4-1-158>>

4-1-157 उदीचां वृद्धादगोत्रात्

प्रथमावृत्तिः

TBD.

काशिका

वृद्धं यच्छब्दरूपम् अगोत्रं, तस्मादपत्ये फिञ् प्रत्ययो भवति उदीचाम् आचार्याणां मतेन। आम्रगुप्तायनिः। ग्रामरक्षायणिः। कारिशब्दादपि वृद्धादगोत्रात् परत्वादनेन एव भवितव्यम्। नापितायनिः। उदीचाम् इति किम्? आम्रगुप्तिः। वृद्धादिति किम्? याज्ञदत्तिः। अगोत्रादिति किम्? औपगविः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1163 उदीचां वृद्धा। वृद्धसंज्ञकादगोत्रप्रत्ययान्तात्फिञ्स्यादुदीचां मते इत्यर्थः। आम्रगुप्तायनिरिति। आम्रगुप्तस्यापत्यमिति विग्रहः। प्राचां त्विति। `मते' इति शेषः। आम्नगुप्तिः। अत इञ्। औपगविरिति। उपगोर्गोत्रापत्यम् औपगवः, तस्यापत्यं युवा औपगविः। औपगवस्य गोत्रत्वात्ततो यूनि फिञभावे इञेवेति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.