TBD.
युवाम्। आवाम्। मपर्यन्तस्य इति किम्? युवकाम्, आवकाम् इति साकच्कस्य मा भूत्। त्वमावेकवचने 7-2-97 त्वया। मया। मपर्यन्तस्य इति किम्? सर्वस्य मा भूत्। तथा च सति त्वमयोरकारस्य यो ऽचि 7-2-89 इति यकारे कृते अनिष्टं रूपं स्यात्। मान्तस्य इत्येव सिद्धे अस्मिन् यत् परिग्रहणं कृतम्, अवधिद्योतनार्थं तत्। मान्ते मा भूत्। कदा? यदा ण्यन्तयोः क्विपि मान्तत्वं विद्यते युष्मदस्मदोः। स्थानिवत्त्वं च णेरत्र क्वौ लुतत्वान् न विद्यते। युवावौ द्विवचने
इत्यर्थग्रहणम्। द्विवचने ये युष्मदस्मदी द्व्यर्थाभिधानविषये तयोः मपर्यन्तस्य स्थाने युव आव इत्येतावादेशौ भवतः। युवाम्। आवाम्। युवाभ्याम्। आवाभ्याम्। युवयोः। आवयोः। यदा समासे द्व्यर्थे युष्मदस्मदी भवतः, समासार्थस्य अन्यसङ्खत्वातेकवचनं बहुवचनं वा भवति, तदा अपि द्व्यर्थयोः युष्मदस्मदोः युवावौ भवतः , यदि त्वाहौ सौ 7-2-94 इत्येवम् आदिना आदेशान्तरेण न बाध्येते। अतिक्रान्तं युवाम् अतियुवाम्। अत्यावाम्। अतिक्रान्तान् युवाम् अतियुवान्। अत्यावान्। अतिक्रान्तेन युवाम् अतियुवया। अत्यावया। अतिक्रान्तैर्युवाम् अतियुवाभिः। अत्यावाभिः। अतिक्रान्तेभ्यो युवाम् अतियुवभ्यम्। अत्यावभ्यम्। अतिक्रान्ताद् युवाम् अतियुवत्। अत्यावत्। अतिक्रान्तेभ्यो युवाम् अतियुवत्। अत्यावत्। अतिक्रान्तानां युवाम् अतियुवाकम्। अत्यावाकम्। अतिक्रान्ते युवाम् अतियुवयि। अत्यावयि। अतिक्रान्तेषु युवाम् अतियुवासु। अत्यावासु। त्वाहादीनां तु विषये परत्वात् ते एव भवन्ति। अतिक्रान्तो युवाम् अतित्वम्। अत्यहम्। अतिक्रान्ता युवाम् अतियूयम्। अतिवयम्। अतिक्रान्ताय युवाम् अतियुभ्यम्। अतिमह्यम्। अतिक्रान्तस्य युवाम् अतितव। अतिमम। यदा तु युष्मदस्मदी एकत्वबहुत्वयोर् वर्तेते, समासार्थस्तु द्वित्वे, तदा युवावौ न भवतः। अतिक्रान्तौ त्वाम् अतित्वाम्। अतिमाम्। अतिक्रान्तौ युष्मानतियुष्मान्। अत्यस्मान्। एवमुन्नेयम्।
TBD.
–
`युष्मद्-औ, अस्मद्-औ, इति स्थिते `ङे प्रथमयो'रित्यमि कृते युष्मद्-अम्, अस्मद्- अम् इति स्थिते-युवावौ द्विवचने। `युष्मदस्मदोरनादेशे' इत्ययो युष्मदस्मदोरित्यनुवर्तते। मपर्यन्तस्येत्यदिकृतम्। उक्तिर्वचनम्। द्वयोर्वचनं द्विवचनम्। तत्र समर्थयोरित्यर्थः। द्वित्वविशिष्टार्थवाचिनोरिति यावत्। नतु द्विवचनसंज्ञके प्रत्यये परे इत्यर्थः, वचनग्रहणसामथ्र्यात्। अन्यथा `द्वित्वे' इत्येव ब्राऊयात्। `अष्टन आ विभक्तौ' इत्यते विभक्तावित्यस्यानुवृत्तौ सत्यां द्वित्वे या विभक्तिस्तस्यां परत इत्यर्थलाभात्। तदाह–द्वयोरुक्तावित्यादिना। द्वयोरुक्तावित्याश्रयणस्य फलमग्रे मूल एव स्पष्टीभविष्यति।
345 युवावौ द्विवचने। उक्तिर्वचनं, द्वयोर्वचनं द्विवचनं, तदेतदाह– द्वयोरुक्ताविति।न चात्र कृत्रिमाऽकृत्रिमन्यायविरोधः शङ्क्यः, वचनग्रहणसामथ्र्यादेव तद्बाधात्। अन्यथा `द्वित्वे'इत्येव ब्रायात्। `अष्टन आ विभक्ता'वित्यतो विभक्तावित्यधिकाराद्द्वित्वे य विभक्तिस्तस्यां परत इति ब्याख्यानसंभवात्।
TBD.