TBD.
एकवचने इत्यर्थनिर्देशः। एकवचने ये युष्मदस्मदी एकार्थामिधानविषये तयोर् मपर्यन्तस्य स्थाने त्व म इत्येतावादेशौ भवतः। त्वाम्। माम्। त्वया। मया। त्वत्। मत्। त्वयि। मयि। यदा समासे एकार्थे युष्मदस्मदी भवतः, समासार्थस्य त्वन्यसङ्ख्यत्वात् द्विवचनं बहुवचनं वा भवति, तदापि त्वमावादेशौ भवतः। आदेशान्तराणां तु त्वाहौ सौ 7-2-94 इत्येवमादीनां विषये पूर्वविप्रतिषेधेन ते एवेष्यन्ते। अतिक्रान्तः त्वाम् अतित्वम्। अत्यहम्। अतिक्रान्तौ त्वाम् अतित्वाम्। अतिमाम्। अतिक्रान्तान् त्वाम् अतित्वान्। अतिमान्। अतिक्रान्ताभ्याम् त्वाम् अतित्वाभ्याम्। अतिमाभ्याम्। अतिक्रान्तैः त्वाम् अतित्वाभिः। अतिमाभिः। इत्येवमाद्युदाहर्तव्यम्।
TBD.
319 एकस्योक्तावनयोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ..
अथ द्वितीयैकवचनस्याऽमो `ङे प्रथमयो'रित्यमि कृते युष्मद् अम्, अस्मद् अम् इति स्थिते–त्वमावेकवचने। `युष्मदस्मदोरनादेशे' इत्यतो `युष्मदस्मदो'रित्यनुवर्तते। `मपर्यन्तस्ये'त्यधिकृतम्। एकवचनशब्दो यौगिक एव, वचनग्रहणसामथ्र्यात्। तदाह– एकस्येत्यादिना।
348 अविभक्तिकमिति। तथाच `ङे प्रथमयो'रिति पूर्वसूत्रेण प्राप्तषेधोऽयमिति भाष्ये शङ्कितम्। नच तथैब किं न स्यात्, `द्लितीयायां चे'त्यात्वे पूर्वसवर्णदीर्घे `तस्माच्छसः'इति नत्वे चेष्टसिद्धेरिति वाच्यं, स्त्रीनपुंसकयोर्नत्वाऽप्राप्त्या`युष्मान्ब्राआहृणीः' `युष्मान्कुलानी'त्यसिद्धिप्रसङ्गात्। अलिङ्गत्वपक्षे तु युष्माम् ब्राआहृणा`नित्यादेरप्यसिद्धिप्रसङ्गाच्च।
TBD.