Table of Contents

<<7-2-92 —- 7-2-94>>

7-2-93 यूयवयौ जसि

प्रथमावृत्तिः

TBD.

काशिका

युष्मदस्मदोः मपर्यन्तस्य जसि परतो यूय वय इत्येतावादेशौ भवतः। यूयम्। वयम्। परमयूयम्। परमवयम्। अतियूयम्। अतिवयम्। तदन्तविधिरत्र भवति, अङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

318 अनयोर्मपर्यन्तस्य. यूयम्. वयम्..

बालमनोरमा

`ङे प्रथमयो'रिति जसोऽमि कृते विशेषमाह–यूववयौ जसि। स्पष्टमिति। युष्मदस्मदोर्मपर्यन्तस्य यूय वय इत्यादेशौ2 स्तौ जसि परत इति सुगममित्यर्थः। यूय अद् अम्, वय अद् अम् इति स्थिते पररूपे `शेषे लोपः' इति मपर्यन्ताच्छेषस्य अदो लोपे परिनिष्ठितं रूपमाह–यूयं वयमिति। परमयूयमिति।यूयवयविधेराङ्गत्वात्तदन्तविधिरिति भावः। अतियूयमिति। गौणत्वेऽपि तदप्रवृत्तौ मानाऽभावादिति भावः। अत्र शीभावमाशङ्क्य परिहरति-इहेति। इह `शेषे लोप इत्यन्त्यलोप' इति पक्षे दकारस्य लोपे सति अवर्णान्तात्सर्वनाम्नः परत्वाज्जसः शीभावः। प्राप्तो न भवतीत्यन्वयः। कुत इत्यत आह-अङ्गकार्ये इति अङ्गादिकारविहिते कार्ये कृते सति पुनरङ्गाधिकारविहितं कार्यं न भवतीत्यर्थः। तेन त्वमित्यत्र पररूपे कृते `अमि पूर्वः' इत्यस्य नानुपपत्तिः। `ज्यादादीयसः' इति सूत्रे `ज्ञाजनोर्जे'ति सूत्रे च `अङ्गवृत्ते पुनर्वृत्तावविधि'रिति परिभाषा स्थिता। सा चाऽत्रार्थत उपनिबद्धा। नच द्वाभ्यामित्यत्र त्यदाद्यत्वे कृते `सुपि चे'ति दीर्घो न स्यादिति वाच्यं, `द्वयोरेकस्ये'त्यादिनिर्देशेन तदनित्यत्वज्ञापनात्। प्रकृते च शेषलोपस्य आङ्गस्य प्रवृत्तत्वाद#आङ्गः शीभावो न भवतीति भावः। ननु `अङ्गकार्ये' इति परिभाषा नात्र प्रवर्तते। शीभावस्य अङ्गाधिकारविहितत्वेऽपि अङ्गाधिकरणकत्वाऽभावात् `अह्गवृत्ते पुनर्वृत्तावविधिः' इति परिभाषास्वारस्येन तथैव प्रतीतेः। अतोऽत्र शीभावो दुर्वार इत्यस्वरसादाह–ङे प्रतमयोरिति। `ङे प्रथमयोर'मित्यत्र अम् म् इति मकारान्तरं प्रश्लिष्यते। अम् च म् चेति द्वन्द्वः। अन्त्यो मकारः संयोगान्तलोपेन लुप्तः। प्रश्लिष्टश्च मकारोऽमो विशेषणं, तदन्तविधिः मकारान्तोऽम् स्यादिति लभ्यते। मकारान्तस्य अमः पुनर्मान्तत्वविधानादम् मान्त एव भवति नतु तस्य विकारो भवतीति लभ्यते। अतो न शीभाव इत्यर्थः। वस्तुतस्तु मकारान्तरप्रश्लेषो बाष्येऽदर्शनादुपेक्ष्यः। संनिपातपरिभाषयैवाऽत्र शीभावो न भवति। दकारस्य शेषलोपो हि आत्वयत्वनिमित्तेतरात्मकशेषविभक्त्यात्मकस्य अमो युष्मदस्मदोश्च संनिपातमाश्रित्य प्रवृत्तः। ततः शीभावे तु आद्गुणे यूये वये इति स्यात्। तत्र एकादेशस्य पूर्वान्तत्वे प्रकृत्यनुप्रवेशात् प्रत्ययसंनिपातभङ्गः। परादित्वे तु युष्मदस्मत्संनिपातविरोध इत्यलम्।

तत्त्वबोधिनी

347 युवकाभ्यादित्यादि। अङ्गकार्य इति। एतेन `अङ्गवृत्ते पुनर्वृत्तावविधि'रिति परिभाषा अर्थत उपनिवबद्धा। `अङ्गे-अङ्गधिकारे-वृत्तं वर्तनं यस्य तदङ्गवृत्तं शास्त्रं, तस्मिन्प्रवृत्ते सति पुनरन्यास्याऽङ्गवृत्तशाश्त्रस्य प्रवृत्तौ प्राप्तायामविधिः'इति तत्परिभाषाया अर्थः। एषा च परिभाषा `ज्ञाजनोर्जे'त्यनेन ज्ञापिता। उपपत्तिस्तु मनोरमातोऽवगन्तव्या। न चैवं `द्वाभ्या'मित्यत्र त्यदाद्यत्वे कृते `सुपि चे'ति दीर्घो न स्यादिति वाच्यं, `द्वयोरेकस्ये'त्यादिनिर्देशेन उक्तपरिभाषाया अनित्यत्वज्ञापनादिति दिक्। मकारान्तरमित्युपलक्षणं, `जसश्श्शी'त्यत्र `जसः स्'इति सकारं प्रश्लिष्य सान्तस्य जस इति व्याख्यानात्, `अतोऽ'मितिसूत्रादम्ग्रहणमनुवर्त्त्य `अम् अमेवे'ति व्याख्यानाद्वेति बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.