TBD.
युष्मदस्मदोर् मपर्यन्तस्य सौ परे त्व अह इत्येतौ आदेशौ भवतः। त्वम्। अहम्। परमत्वम्। परमाहम्। अतित्वम्। अत्यहम्।
TBD.
314 अनयोर्मपर्यन्तस्य त्वाहौ आदेशौ स्तः..
त्वाहौ सौ। त्वश्च अहश्च त्वाहौ। मपर्यन्तस्येत्यधिकृतम्। युष्मदस्मदोरनादेशे' इत्यतो युष्मदस्मदोरित्यनुवर्तते। तदाह–युष्मदस्मदोरित्यादिना। त्व अद् अम्, अह अद् अम् इति स्थितम्। यद्यप्यत्र `त्वमावेकवचने' #इत्येव युष्मच्छब्दस्य त्वादेशः सिद्धतस्तथापि युष्मानतिक्रान्तोऽतित्वमित्यत्र त्वादेशार्थमिह युष्मदस्त्वविधानम्। नहि `तत्र त्वमावेकवचने' इत्यस्य प्रवृत्तिरिति, अत्र युष्मच्छब्दस्य बुहुत्वविशिष्टे वृत्तेः। एकवचनशब्दो हि तत्र एकत्वविशिष्टवृत्तिवाची, नतु एकवचनसंज्ञकप्रत्ययवाचीत्यनुपदमेव वक्ष्यते।
343 त्वाहौ सौ। यद्यपि युष्मदः `त्वमावेकवचने'इत्येवत्वादेशः सिद्धस्तथापि अस्मदोऽहादेशार्थमिदम्। किंच `त्वमौ'इति सूत्रेण युवां युष्मान् वाऽतिक्रान्तोऽतित्वमिति न सिध्यति, एकार्थवाचित्वऽभावाद्युष्मद इति भावः। युष्मदस्मदोरिति। एतच्च `युष्मदस्मदोरनादेशे'इत्यतो लभ्यते। शेषे। उक्तादन्यः शेषः, आत्वं यत्वं च प्रागुक्तम्, तद्विषयादन्यविभक्तिरिह शेषशब्दार्थस्तदेतद्द्याचष्टे—-
TBD.