Table of Contents

<<7-2-88 —- 7-2-90>>

7-2-89 यो ऽचि

प्रथमावृत्तिः

TBD.

काशिका

अजादौ विभक्तौ अनादेशे युष्मदस्मदोः यकारादेशो भवति। त्वया। मया। त्वयि। मयि। युवयोः। आवयोः। अचि इति किम्? युवाभ्याम्। आवाभ्याम्। युष्मदस्मदोरनादेशे 7-2-86 इत्यत्र यदि हलि इति अनुवर्तते, शक्यमकर्तुम् अचि इति एतत्? तत् क्रियते विस्पष्टार्थम्। अनादेशे इत्येव। त्वद् गच्छति। मद् गच्छति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

322 अनयोर्यकारादेशः स्यादनादेशेऽजादौ परतः. त्वया. मया..

बालमनोरमा

योऽचि। `युष्मदस्मदोरनादेशे' इत्यनुवर्तते। `अष्टन आ विभक्तौ' इत्यतो `विभक्ता'विति चानुवर्तते। `अची'ति विभक्तिविशेषणं। तदादि विधिस्तदाह–अनयोरिति। युष्मदस्मदोरन्त्यस्येत्यर्थः। अचि किम् ?, युवाभ्याम्। अनादेशे किम् ?, त्वत्, मत्। `पञ्चम्या अत्' इत्यदादेशे सति न यत्वम्। `युष्मद् आ, अस्मद् आ इत्यत्र `त्वमावेकवचने' इति मपर्यन्तस्य त्वमादेशयोर्दकारस्य यत्वे पररूपे च रूपमिति भावः।

तत्त्वबोधिनी

349 योऽचि। अचि किम्?। युवाभ्याम्। यदि तु `युष्मदस्मगदोरनाद्शे'इत्यत्र `रायो हली'त्यतो हलीत्यनुवर्तते तदेहा`ऽची'ति मास्तु, परिशेषादेव सिद्धेः।

Satishji's सूत्र-सूचिः

TBD.