Table of Contents

<<6-1-171 —- 6-1-173>>

6-1-172 अष्टनो दीर्घात्

प्रथमावृत्तिः

TBD.

काशिका

अष्टनो दीर्घान्तादसर्वनामस्थानविभक्तिरुदात्ता भवति। अष्टाभिः। अष्टाभ्यः। अष्टासु। घृतादिपाठातष्टन्शब्दो ऽन्तोदात्तः, तत्र ज्ञल्युपोत्तमम् 6-1-180 इत्यस्य अपवादो विभक्तिरेव उदात्तत्वं विधीयते। दीर्घातिति किम्? अष्टसु प्रक्रमेषु ब्राह्मणो ऽग्नीनादधीत। इदम् एव दीर्घग्रहणम् अष्टन आत्त्वविकल्पं ज्ञापयति, कृतात्वस्य च षट्संज्ञां ज्ञापयति। अन्यथा ह्यात्वपक्षे सावकाशो ऽष्टनः। स्वरः परत्वादनात्वपक्षे षट्स्वरेण बाधिष्यते इति किम् दीर्घग्रहणेन।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.