TBD.
रै इत्येतस्य हलादौ विभक्तौ परतः आकारादेशो भवति। राभ्याम्। राभिः। हलि इति किम्? रायौ। रायः। विभक्तौ इति किम्? रैत्वम्। रैता। मृजेर् वृद्धिः 7-2-114 इत्यतः प्राग् विभक्त्यधिकारः।
TBD.
216
284 तस्य हलादिविभक्तिषु विशेषं दर्शयति–रायो हलि। `राय' इति `रै' शब्दस्य षष्ठयन्तम्। `अष्टन आ विभक्तौ' इत्यत `आ' इति विभक्ता'विति चानुवर्तते। `हलीत्यनेन विभक्ताविति विशेष्यते, ततस्तदादिविधिः। तदाह–रैशब्दस्येति। हल्ग्रहणादचि आत्वं न, किं तु आयादेश एवैत्यत आह–अचीति। राः आत्वे रुत्वविसर्गौ। अचि आयादेशमुदांहरंति–रायो राय इति। इत्यादिति। राभिः। राये राभ्याम् राभ्यः। राय राभ्याम् राभ्यः। रायः रायोः रायाम्। रायि रायोः रासु। रैशब्दः छान्दस इति भाष्यम्। क्यजन्त एव छान्दस इति पक्षान्तरम्। इत्यैदन्ताः।\र्\नथ औदन्ताः। ग्लौशब्दश्चन्द्रवाची। `ग्लौर्मृगाङ्कः क्लानिधिः' इत्यमरः। तस्य हलादौ न कश्चिद्विकारः। अचि तु आवादेश इति मत्त्वाह–मलौर्ग्लावौ ग्लाव इति। ग्लावम्, ग्लावौ, ग्लावः। ग्लावा, ग्लौभ्याम्, ग्लौभिः। ग्लावे, ग्लौभ्याम्, ग्लौभ्यः। ग्लावः, ग्लौभ्याम्, ग्लौभ्यः। ग्लावः, ग्लावोः, ग्लावाम्। ग्लावि,ग्लावोः,ग्लौषु। सावण्र्यादौकारस्यापि ग्रहणादम्शसोर्ग्लौशब्दस्याऽऽत्वं कुतो न स्यादित्यत आह– औतोऽम्?शसोरितीह न प्रवर्तत इति। ऐऔजित्यादिग्रन्थस्तु संज्ञाप्रकरणे व्याख्यातः। एवं जनानवतीति जनौः। क्विप्। ज्वरत्वरेत्यूठ। एत्येधतीति वृद्धिः। जनावौ। जनाव इत्यादि। इत्यौदन्ताः॥ पुंलिङ्गाः* इति रमा। `रमि क्रीडायाम्' पचाद्यचि `अजाद्यतष्टाप्'। प्रत्ययान्तत्वादप्रातिपदिकत्वेऽपि `ङ्याप्प्रातिपदिका'दिति ङ्यापोः पृथग्ग्रहणात्, लिङ्गविशिष्टपरिभाषया वा स्वादयः। `हल्ङ्या'बिति सुलोपः।\त्
–
TBD.