Table of Contents

<<7-2-80 —- 7-2-82>>

7-2-81 आतो ङितः

प्रथमावृत्तिः

आतः (6/1), ङितः (6/1)| अनु.– अतः, इयः, सार्वधातुके, अङ्गस्य॥
हिन्दी – अकारान्त अङ्ग के उत्तर [ङित:] ङित् सार्वधातुक के अवयव [आतः] आकार के स्थान में इय् आदेश होता है। सार्वधातुकम् अपित् 1-2-4 से ’आताम्’ ङित् है।

काशिका

आकारस्य ङिदवयवस्य अकारान्तादङ्गादुत्तरस्य सार्वधातुकस्य इयित्ययम् आदेशो भवति। पचेते पचेथे। पचेताम्। पचेथाम्। यजेते। यजेथे। यजेताम्। यजेथाम्। सार्वधातुकम् अपित् 1-2-4 इत्यत्र न ङितीव ङिद्वतित्येवम् अङ्गीक्रियते, अपि तु ङित इव ङिद्वतिति। पूर्वसूत्र एव उच्चुकुटिषति इति प्रसिद्धये तथाङ्गीकरणम्। यदि गाङ्कुटादिसूत्रे 1-2-1 ङित इव ङिद्वद् भवति इत्येवम् अङ्गीक्रियते, तदा अनुदात्तङिति आत्मनेपदम् 1-3-12 इत्यात्मनेपदं प्राप्नोति इति। आतः इति किम्? पचन्ति। यजन्ति। पचन्ते। यजन्ते। ङितः इति किम्? पचावहै। पचामहै। अतः इत्येव – चिन्वाते। सुन्वाते। तपरकरणम् किम्? मिमाते। मिमाथे।।

Ashtadhyayi (C.S.Vasu)

For the आ being a portion of a सार्वधातुक Personal ending which is ङित् (i.e. आते, आथे, आताम् and आथाम्), coming after a Verbal stem ending in short अ, there is a substituted इय्॥

लघु

511 अतः परस्य ङितामाकारस्य इय् स्यात्. एधेते. एधन्ते..

बालमनोरमा

81 आतो ङितः। ङित इत्यवयवषष्ठी। `अतो येय' इत्यस्मादत इति पञ्चम्यन्तम्, इय इति प्रथमान्तं चानुवर्तते। यकारादकार उच्चारणार्थः। तदाह–अतः परस्येति। `ङिता'मित्यनन्तरम्' `अवयवस्ये'ति शेषः। एधेते इति। एध–आतो इति स्थिते, आकारस्य इञ्, `#आद्गुणः' अन्तादेशे, पररूपे, टेरेत्वमिति भावः। अथ लटो मध्यमपुरुषैकवचने थासादेसे कृते `टित आत्मनेपदाना'मित्येत्वे प्राप्ते–

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.