TBD.
आने परतो ऽङ्गस्यातः मुगागमो भवति। पचमानः। यजमानः। अकारमात्रभक्तो ऽयं मुकदुपदेशग्रहणेन गृह्यते इति अदुपदेशादिति लसार्वधातुकानुदत्तत्वं भवति। यद्येवम् आतो ङितः 7-2-81 इत्ययम् अपि चिधिः प्राप्नोति? तपरनिर्देशान् न भविष्यति। मुकि सति अध्यर्धमात्रो भवति। लसार्वधातुकानुदात्तत्वम् अपि तर्हि न प्राप्नोति? न एष दोषः। उपदेशग्रहणं तत्र क्रियते। तेन उपदेशादूर्धं सत्यपि कालभेदे भवितव्यम्। तथा च पचवः, पचामः इत्यत्र अपि भवति।
TBD.
835 अदन्ताङ्गस्य मुगागमः स्यादाने परे. पचमानं चैत्रं पश्य. लडित्यनुवर्तमाने पुनर्लड्ग्रहणात् प्रथमासामानाधिकरण्येऽपि क्वचित्. सन् द्विजः..
903 आने मुक्। `अङ्गस्ये'त्यधिकृतम् `अतो येयः' इति पूर्वसूत्रादनुवृत्तेन षष्ठ\उfffदा विपरिणतेन अता विशेष्यते। तदन्तविधिः। तदाह– अदन्तस्येति। मुकि ककार इत्, उकार उच्चारणार्थः, कित्त्वादन्तावयवः। अनुवर्तमाने इति। `वर्तमाने ल'डिति पूर्वसूत्रादनुवृत्तस्य लडित्यस्य षष्ठ\उfffदा विपरिमाणेन उक्तार्थलाभे सतीत्यर्थः। अधिकेति। सूत्राक्षराऽनारूढस्यापि अर्थस्य लाभार्थमित्यर्थः। सन् ब्राआहृण इति। `अस भुवि' शतृप्रत्यये शपो लुक्, श्नसोरल्लोपः। माङीति। माङि प्रयुज्यमाने आक्रोशे गम्ये लटः शतृशानचाविति वक्तव्यमित्यर्थः। मा जीवन्निति। न जीवत्ययम्। अनुपकारित्वान्मृतप्राय इत्यर्थः। `मा पचमान' इत्यप्युदाहार्यम्। `लटः शतृशानचौ' इत्येव सिद्धेः किमर्थमिदमित्यत आह– माङि लुङितीति।
744 आने मुक्। `अतो येयः' इति पूर्वसूत्रादनुवृत्तं पञ्चम्यन्तमप्यत इति पदं षष्ठ\उfffदा विपरिणम्यते, `आने' इति सप्तमीबलात्। न चाऽत इति पञ्चमीबलादान इति सप्तम्यन्तं पं षष्ठ\उfffदा विपरिणम्यते इति शङ्क्यं, पञ्चम्याः पूर्वसूत्रे चरितार्थत्वात्सप्तम्याश्चाऽचरितार्थत्वात्। तदेतदाह– अङ्गस्याऽत इति। प्राचा त्वदन्तङ्गस्येति व्याख्यातं, तदयुक्तम्। `पचमान' इत्यादौ `अदुपदेशाल्लसार्वधातुकमनुदात्त'मिति शानचः स्वरस्याऽसिद्धिप्रसङ्गात्। `अदन्ताङ्गस्ये'ति पक्षे हि `अङ्गभक्तो मुक् स चाङ्गमेव न व्यवदध्यात् , तदवयवमकारं तु व्यवदध्यादेव। अकारमात्रभक्तत्वे तु तदवयवत्वान्नास्ति व्यवधानमित्यदोषः। ननु `स्वरविधौ व्यञ्जनमविद्यमानव'दिति परिभाषया मुकोऽविद्यमानवत्त्वेन व्यवधानाऽबावात्स्यादेवानुदात्तत्वमिति चेत्। अत्राहुः- हलः स्वरप्राप्तौ व्यञ्जनमविद्यमानवन्नान्यत्रेत्याकरारूढम्। न चाऽत्र हलः स्वरप्राप्तिरस्तीति प्रकृते परिभाषेयं नोपयुज्यते। अन्यथा मरुत्त्वनित्यादावपि `ह्यस्वनुड्?भ्यां मतु'विति मतुप उदात्तत्वं स्यादिति दिक्। लिडिति। यद्यपि प्रथमान्तं प्रकृतं, तथापि धातोरित्यधिकारात्पञ्चम्यन्तात्परं प्रथमान्तं षष्ठ\उfffद्#आ विपरिणम्यत इति भावः। न च `वर्तमाने ल'डित्यत्रैवोक्तरीत्या विपरिणामोऽस्त्विति शङ्क्यं, प्रत्ययविधौ पञ्चम्याः प्रकल्पकत्वं नास्तीति `गुप्तिज्किद्भ्यः स'नित्यत्र भाष्यकारैः स्वीकृत्वात्। प्रथमासामानाधिकरण्येऽपीति। उपलक्षममिदम्। अप्रथमान्तेन सामानाधिकरण्याऽभावेऽपीत्यर्थः। उपलक्षणमिदम्। अप्रथमान्तेन सामानाधिकरण्याऽभावेऽपीत्यर्थः। तेन कुर्वतोऽपत्यं कौर्वतः। कुर्वतो भक्तिः कुर्वद्भक्तिः,कुर्वाणभक्तिरिति प्रत्ययोत्तरपदयोरपि सिध्यति। अन्यथा कुर्वतोऽपत्यमित्यादौतद्धितसमासौ न स्याताम्।
वृत्तिः अङ्गस्यातो मुगागमः स्यादाने परे । A अकार: belonging to a अङ्गम् takes the augment मुँक् when followed by ‘आन’।
उदाहरणम् – पचमानं चैत्रं पश्य ।
The प्रातिपदिकम् ‘पचमान’ is derived from the verbal root √पच् (डुपचँष् पाके १. ११५१)
पच् + लँट् 3-2-123
= पच् + ल् 1-3-2, 1-3-3, 1-3-9
= पच् + शानच् 3-2-124, 1-3-72, 1-4-100
= पच् + आन 1-3-3, 1-3-8, 1-3-9
= पच् + शप् + आन 3-1-68
= पच् + अ + आन 1-3-3, 1-3-8, 1-3-9
= पच् + अ मुँक् + आन 7-2-82, 1-1-46
= पच म् + आन 1-3-2, 1-3-3, 1-3-9
= पचमान । ‘पचमान’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.
The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्।
पचमान + अम् 4-1-2. 1-3-4 prevents the ending मकार: of ‘अम्’ from getting the इत्-सञ्ज्ञा।
= पचमानम् 6-1-107