Table of Contents

<<1-1-75 —- 1-2-2>>

1-2-1 गाङ्कुटादिभ्योऽञ्णिन् ङित्

प्रथमावृत्तिः

TBD.

काशिका

अतिदेशो ऽयम्। गाङिति इङादेशो र्ह्यते, न गाङ् गतौ इति, ङकारस्य अनन्यार्थत्वात्। कुटादयो ऽपि कुट कौटिल्ये इत्येत दारभ्य यावत् कुङ् शब्दे इति। एग्यो गाङ्कुटादिभ्यः परे अञ्णितः प्रत्यया ङितो भवन्ति ङिद्वद् भवन्ति इत्यर्थः। गाङः अध्यगीष्ट। अध्यगीषाताम्। अध्यगीषत। कुटादिभ्यःकुटिता। कुटितुम्। कुटितव्यम्। उत्पुटिता उत्पुटितुम्। उत्पुटितव्यम्। अञ्णितिति किम्? उत्कोटयति। उच्चुकोट। उत्कोटकः। उत्कोटो वतते। व्यचेः कुटादित्वमनसीति वक्तव्यम्। विचिता। विचितुम्। विचितव्यम्। अनसि इति किम्? उरुव्यचाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

590 गाङादेशात्कृटादिभ्यश्च परेऽञ्णितः प्रत्यया ङितः स्युः..

बालमनोरमा

292 गाङ् च कुटादयश्चेति द्वन्द्वात्पञ्चमी। गाङिति ङकारानुबन्धात् `इणो गा लुङी'त्यस्य न ग्रहणमित्युक्तम्। नापि `गाङ्गतौ' इत्यस्याऽत्र ग्रहणं, तत्र ङकारस्यात्मनेपदप्रापणेन चरितार्थत्वात्। इङादेशस्य गाङो ङकारो नात्मनेपदप्रापणेन चरितार्थः, स्थानिवत्त्वेनैव तत्सिद्धेः। तदाह–गाङादेशादिति। एवं च सिचो ङित्त्वे आह–

तत्त्वबोधिनी

252 गाङ्कुटादिभ्यो। इह गाङ्गतावित्यस्य न ग्रहणम्, तङर्थतया ङकारानुबन्धस्य तत्र चरितार्थत्वात्। आदेशङकारस्तु अचरितार्थः। स्थानिवद्भावेनैव तङः सिद्धत्वादत आह— - गाङादेशादिति। कुटादिस्तुदाद्यन्तर्गणः। केचित्तु कुट आदिर्येषां ते कुटादयः। कुटस्य आदिः कुटादिः, कुटादिश्च कुटादयश्च कुटादय इति समासद्वयमाश्रित्य कुटपूर्वस्य लिखधातोरपि ग्रहमाल्लिखनमिति प्रयोगः सिद्ध इत्याहुः। तच्च `रलो व्युपधा'दिति सूत्रस्थेन `लिखित्वा, लखित्वा लिलिखिषति लिलेखिषती'ति वृत्तिग्रन्थेन, `शकुनिष्वालेखने' इति सौत्र प्रयोगेण च विरुध्यते। अञ्णिदिति किम् ?। घञि– कोटः। पोटः। णलि चुकोट। पुपोट।

Satishji's सूत्र-सूचिः

वृत्ति: गाङादेशात्कुटादिभ्यश्च परेऽञ्णितः प्रत्यया ङितः स्युः । The affixes which are अञ्णित् (do not have a ञकारः or a णकारः as a इत्) are considered ङित् (as if they have ङकारः as a इत्) when they follow either the substitute “गाङ्” (which comes in place of √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१)) or any verbal root in the section from √कुट् (कुटँ कौटिल्ये ६. ९३) through √कु (कुङ् शब्दे ६. १३६).

Example continued from 2-4-50

अधि गा + स् + त By 1-2-1, the affix “सिँच्” here is ङिद्वत् (behaves as if it has ङकारः as a इत्।) This enables 6-4-66 to apply in the next step.
= अधि गी + स् + त 6-4-66
= अधि अट् गी + स् + त 6-4-71, 1-1-46
= अधि अ गी + स् + त 1-3-3, 1-3-9
= अधि अगीष्त 8-3-59
= अधि अगीष्ट 8-4-41
= अध्यगीष्ट 6-1-77

“गाङ्”-अभावे। Now let us consider the case where the substitute “गाङ्” is not applied.
अधि इ + लुँङ् 3-2-110
= अधि इ + ल् 1-3-2, 1-3-3, 1-3-9
= अधि इ + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-12
= अधि इ + च्लि + त 3-1-43
= अधि इ + सिँच् + त 3-1-44
= अधि इ + स् + त 1-3-2, 1-3-3, 1-3-9. Note: 7-2-10 blocks 7-2-35
Note: As per 8-2-1, we cannot apply 8-2-27 at this stage.
= अधि ए + स् + त 7-3-84
= अधि आट् ए + स् + त 6-4-72, 1-1-46
= अधि आ ए + स् + त 1-3-3, 1-3-9
= अधि ऐ + स् + त 6-1-90
= अधि ऐष्त 8-3-59
= अधि ऐष्ट 8-4-41
= अध्यैष्ट 6-1-77