Table of Contents

<<7-2-52 —- 7-2-54>>

7-2-53 अञ्चेः पूजायाम्

प्रथमावृत्तिः

TBD.

काशिका

अञ्चेः पूजायाम् अर्थे क्त्वानिष्ठयोः इडागमो भवति। अञ्चित्वा जानु जुहोति। अञ्चिता अस्य गुरवः। उदितो वा 7-2-56 इति क्त्वाप्रत्यये विकल्पः प्राप्तः, निष्ठायाम् यस्य विभाषा 7-2-15 इति प्रतिषेधः प्राप्तः, तदर्थम् इदं प्रारब्धम्। पूजायाम् इति किम्? उदक्तमुदकं कूपात्। उद्धृतम् इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

854 अञ्चेः पूजायाम्। `उदितो वे'ति क्त्वायां विकल्पे प्राप्ते, निष्ठायां तु `यस्य विभाषे'ति निषेधे प्राप्ते वचनम्। अञ्चित इति। `नाऽञ्चेः पूजाया'मिति नलोपनिषेधः।

तत्त्वबोधिनी

700 अञ्चेः। उदित्त्वात् क्त्वायां विकल्पे प्राप्ते, निष्ठायां `यस्य विभाषे'ति निषेधे प्राप्ते वचनम्। अञ्चित इति। `नाञ्चेः पूजाया'मिति नलोपनिषेधः। अक्त इति। `अनिदिता' मिति नलोपः।

Satishji's सूत्र-सूचिः

TBD.