TBD.
यस्य धातोः विभाषा क्वचिदिडुक्तः तस्य निष्ठायां परतः इडागमो न भवति। वक्ष्यति स्वरतिसूतिसूयतिधूञूदितो वा 7-2-44। विधूतः। विधूतवान्। गुहू गूढः। गूढवान्। उदितो वा वृधु वृद्धः। वृद्धवान्। तनिपतिदरिद्राणाम् उपसङ्ख्यानम् इति पतेर् विभाषितेट्कस्य अपि द्वितीयाश्रितातीतपतित 2-1-24 ति निपातनातिडागमः।
TBD.
–
834 यस्य विभाषा। यस्येति। यस्मादित्यर्थः। निष्ठाया इण्न स्यादिति। `\उfffदाईदितः' इत्यतो निष्ठायामिति, `नेड्वशी'त्यतो नेडिति चानुवर्तत इति भावः। नन्वञ्चेर्नित्यं सेट्कत्वात् कथं तस्य क्वचिद्वेट्कत्वमित्यत आह– उदितो वेति। समन्क इति। सङ्गत इत्यर्थः। संपूर्वादञ्चुधातोः क्तः। `आद्र्धधातुकस्ये'डिति प्राप्तस्य इटो निषेधः। `अनिदिता'मिति नलोप-। चस्य कुत्वम्। उदक्तमुदकं कूपादिति। उद्धृतमित्यर्थः। अत्राऽपादानसमभिव्याहारसत्त्वान्नत्वं नेति भावः। `ओ व्रश्चू छेदने' सस्य श्चुत्वेन निर्देशः, अस्मात्क्तः, `ग्रहिज्ये'ति संप्रसारणम्, ऊदित्त्वेन वेट्कत्वादिह `यस्य विभाषे'ति नेट्, चस्य कुत्वेन कः, `ओदिश्चे'ति निष्ठानत्वं, तस्याऽसिद्धत्वेन झल्परत्वात् `स्को'रिति सलोपः णत्वम्। वृक्ण इति रूपमिति स्थितिः। तत्र नत्वस्याऽसिद्धत्वेन झल्परत्वात् `व्रश्चे'ति षत्वं स्यादित्यत आह– निष्ठादेशः षत्वेति। तथा च `व्रश्चभ्रस्जे' ति षत्वे कर्तव्ये नत्वस्याऽसिद्धत्वाऽभावेन झल्परकत्वाऽभावान्न षत्वमित्यर्थः। स्वरप्रत्ययेड्विधिषूदाहरणानि भाष्ये स्पष्टानि।
683 यस्य विभाषा। यस्येत्याद्र्धधातुकापेक्षया षष्ठी। यदीयस्याद्र्धधातुकस्येत्यर्थः। समक्न इति। अञ्चु व्यक्ती'त्यस्य,न त्वञ्चेः। तेनात्र न्तवाऽबावः। वृक्ण इति। ओव्रश्चू छेदने। `ग्रहिज्ये' ति संप्रसारणम्। नत्वस्याऽसिद्धत्वात् `स्को'रिति सलोपः, `चोः कुः' इति कुत्वं च। ऊदित्वेन वेट्कत्वात् `यस्य विभाषे'ति निषठाया इडभावः। नुड्विधिलादेशविनामेषु वर्णैकदेशस्यापि वर्णत्वेन ग्रहणादृकारैकदेशो रेफो निमित्तमिति `अट्कुप्वा'ङिति नस्य णत्वम्। णत्वस्य `विनाम' इति प्राचां संज्ञा। `ऋवर्णान्नस्य णत्व'मिति यथाश्रुतपक्षेऽपि णत्वनिषेधार्थं क्षुभ्नादिषु नृमनशब्दपाठादृकारं निमित्तीकृत्याऽपि `अट्?कुप्वा' ङिति णत्वं भवत्येवेति दिक्।
वृत्तिः यस्य क्वचिद्विभाषयेड्विहितस्ततो निष्ठाया इण्न स्यात् । If a verbal root optionally allows an augment इट् in some case, then following that verbal root a निष्ठा affix (ref. 1-1-26) is prohibited from taking the augment इट्।
उदाहरणम् – प्रातिपदिकम् “वृक्ण” derived from the verbal root √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२). The original form of this verbal root is ‘व्रस्च्’ which becomes ‘व्रश्च्’ only after applying 8-4-40.
व्रस्च् + क्त 3-2-102, 3-4-70
= व्रस्च् + त 1-3-8, 1-3-9. Note: 7-2-15 stops 7-2-35 because of the optionality prescribed by 7-2-44.
= व् ऋ अ स्च् + त 6-1-16, 1-1-45
= वृस्च् + त 6-1-108
= वृच् + त 8-2-29
= वृक् + त 8-2-30
Example continued under 8-2-45