TBD.
वसतेः क्षुधेश्च क्त्वानिष्ठयोः इडागमः भवति। उषित्वा। उषितः। उषितवान्। क्षुधित्वा। क्षुधितः। क्षुधितवान्। वसति इति विकरणो निर्देशार्थ एव। वस्तेस् तु उदात्तत्वादेव भवितव्यम् इटा। पुनरिड्ग्रहणं नित्यार्थम्।
TBD.
–
853 वसतिक्षुधोरिट्। पञ्चम्यर्थे षष्टी। क्त्वानिष्ठयोरिति। `क्लिशः क्त्वानिष्ठयो'रित्यतस्तदनुवृत्तेरिति भावः। नित्यमिति। इडित्यनुवर्तमाने पुनरिड्ग्रहणस्य `स्वरतिसूती'त्यतो वाग्रहणानुवृत्तिनिवृत्त्यर्थत्वादिति भावः। `एकाच उपदेश' इति इण्निषेधबाधनार्थमिदं सूत्रम्। उषित इति। यजादित्वात्संप्रसारणम्, `शासिवसिघसीनां चे'ति षः।
699 उषित इति। यजादित्वात्संप्रसारणम्। `शासिवसी' ति षः। `वसती'ति शपा निर्देशः स्पष्टार्थः। वस्तेः सेट्कत्वाद्भवितव्यमेवेटा। क्षुधित इति। एवं च `तस्याऽलमेषा क्षुधितस्ये'ति प्रयोगो निर्बाध एवेति क्षुधेर्धातोर्भावे क्विपि `तारकादित' जिति धातुवृत्तिषु यदुक्तं, तन्नादर्तव्यम्। समानन्यायतया क्रुधितादावुयोक्ष्यत इति वा कथंचिन्नेयम्।
वृत्तिः आभ्यां क्त्वानिष्ठयोर्नित्यमिट् स्यात्। When following the verbal root √वस् (वसँ निवासे १. ११६०) or √क्षुध् (क्षुधँ बुभुक्षायाम् ४. ८७) the affix ‘क्त्वा’ as well as ‘निष्ठा’ (ref. 1-1-26 क्तक्तवतू निष्ठा) necessarily takes the augment इट्।
उदाहरणम् – प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ (गीता 6-41) उषित्वा is derived from the verbal root √वस् (वसँ निवासे १. ११६०).
वस् + क्त्वा 3-4-21
= वस् + त्वा 1-3-8, 1-3-9
= वस् + इट् त्वा 7-2-52, 1-1-46. Note: In the absence of 7-2-52, the augment ‘इट्’ would not have been possible here because 7-2-10 would prohibit 7-2-35.
= वस् + इत्वा 1-3-3, 1-3-9. Now 1-2-18 removes the कित् property of the affix ‘इत्वा’ but the special सूत्रम् 1-2-7 comes in to force.
Example continued under 1-2-7