Table of Contents

<<7-2-53 —- 7-2-55>>

7-2-54 लुभो विमोहने

प्रथमावृत्तिः

TBD.

काशिका

लुभो विमोहने ऽर्थे वर्तमानात् क्त्वानिष्ठयोः इडागमो भवति। लुभित्वा, लोभित्वा। विलुभिताः केशाः। विलुभितः सीमन्तः। विलुभितानि पदानि। विमोहनम् आकुलीकरणम्, तत्र क्त्वायां तीषसहलुभरुषरिषः 7-2-48 इति विकल्पः, निष्ठायाम् यस्य विभाषा 7-2-15 इति प्रतिषेधः प्राप्तः। विमोहने इति किम्? लुब्धो वृषलः। शीतेन पीडितः इत्यर्थः। लुब्ध्वा, लुभित्वा, लोभित्वा। गार्ध्ये यथाप्राप्तम् एव भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

855 लुभो विमोहने। `लुभ' इति पञ्चमी। `लुभ विमोहने' तुदादिः। `विमोहनं व्याकुलीकरण'मिति वृत्तिः। `लुभ गाध्र्ये' दिवादिः। अत्र तौदादिकस्यैव ग्रहणं, तस्यैव विमोहनार्थकत्वात्। नतु दैवादिकस्य, तस्य गाध्र्यार्थकत्वात्। तदाह– न तु गाध्र्ये इति। `तीषसहे'ति क्त्वायां विकल्पे प्राप्ते, निष्ठायां तु `यस्य विभाषे'ति निषेधे प्राप्ते वचनम्। लुभित इति। विमोहित इत्यर्थः। गाध्र्ये तु लुब्ध इति। अभिकाङ्क्षवानित्यर्थः। `मतिबुद्धिपूजार्थेभ्यश्चे'ति कर्तरि क्तः।

तत्त्वबोधिनी

701 लुभो। `तीषसहे'ति क्त्वायां विकल्पे, निष्ठायां निषेधे च प्राप्ते वचनम्।

Satishji's सूत्र-सूचिः

TBD.