Table of Contents

<<7-2-43 —- 7-2-45>>

7-2-44 स्वरतिसूतिसूयतिधूञूदितो वा

प्रथमावृत्तिः

TBD.

काशिका

स्वरति सूति सूयति धूञित्येतेभ्यः, ऊदिद्भ्यश्च उत्तरस्य वलादेरार्धधातुकस्य वा इडागमो भवति। स्वर्ता, स्वरिता। सूति प्रसोता, प्रसविता। सूयति सोता, सविता। धूञ् धोता, धविता। ऊधिद्भ्यः खल्वपि गाहू विगाढा, विगाहिता। गुपू गोप्ता, गोपिता। वा इति वर्तमने पुनर् वाग्रहणं लिङ्सिचोर् निवृत्त्यर्थम्। सूतिसूयत्योर् विकरणनिर्देशः षू प्रेरणे इत्यस्य निवृत्त्यर्थः। धूञिति सानुबन्धकस्य निर्देसो धू विधूनने इत्यसय् निवृत्त्यर्थः। सविता, धुविता इत्येव नित्यम् एतयोर् भवति। स्वरतेरेतस्माद् विकल्पातृद्धनोः स्ये 7-2-70 इत्येतद् भवति विप्रतिषेधेन। स्वरिष्यति। किति तु प्रत्यये श्र्युकः किति 7-2-11 इति नित्यः प्रतिषेधो भवति पूर्वविप्रतिषेधेन। स्वृत्वा। सूत्वा। धूत्वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

478 स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड् वा स्यात्. जुगोपिथ, जुगोप्थ. गोपायिता, गोपिता, गोप्ता. गोपायिष्यति, गोपिष्यति, गोप्स्यति. गोपायतु. अगोपायत्. गोपायेत्. गोपाय्यात्, गुप्यात्. अगोपायीत्..

बालमनोरमा

123 तत्र वलादावाद्र्धधातुके नित्यमिटि प्राप्ते–स्वरति। `आद्र्धधातुकस्येड्वलादे'रित्यनुवर्तते। स्वरति सूति सूयति धूञ् ऊदित्–एषां समाहारद्वन्द्वात्पञ्चम्येकवचनं। फलितमाह– स्वरत्यादेरिति। स्वरतीति स्वृधातोः शपा निर्देशः। सूतीति सूयतीति च लुग्विकरणस्य श्यन्विकरणस्य च सूधातोर्निर्देशः। एवंच षू प्रेरण इति तौदादिकस्य न ग्रहणम्। `धूञ् कम्पने' स्वादिः क्र्यादिश्च। ञकारानुबन्धनिर्देशात् धू विधूनन इत्यस्य न ग्रहणम्। `इट्सनि वे'त्यतो वेत्यनुव्रतमाने वाग्रहणं `लिङ्सिचोरात्मनेपदेष्वि'ति सूत्रयोर्विकल्पनिवृत्त्यर्थमिति भाष्यम्। एवं च थलि इडाभावपक्षे द्वित्वादौ सिसेध्– थ इति स्थिते।

तत्त्वबोधिनी

98 स्वरतिसूति। `स्वृ शब्दोपतापयोःर' भ्वादिः। ननु `स्वरतिसूधूञूदितो वे'ति सूत्र्यतां,किमनेन सूतिसूयत्योः पृथग्ग्रहणेन ?। मैवम्। तथाहि सति निरनुबन्धकपरिभाषया `षू प्रेरणे' इति तौदादिकस्यैव ग्रहणं स्यान्नत्वादादिकदैवादिकयोरेतयोः। न चैवं षूङिति पठ\उfffद्तामिति वाच्यं, `लुग्विकरणाऽलुग्विकरणयो'रिति परिभाषया अलुग्विकरणस्य सूयतेरेव ग्रहणप्रसङ्गात्। अस्याश्च परिभाषायाः सूतिसूयत्योः पृथग्ग्रहणेव ज्ञापकमित्याहुः। `धूञ् कम्पने'स्वादिः क्र्यादिश्च। सानुबन्धनिर्देशो [अन्यथा लिङ्गिज्विशिष्टं वापदमत्रापि सिङ्सचोरेव विकल्पं कुर्यात्। पुनर्वाग्रहणे तु आद्र्धधातुकमात्रे विकल्पः सिद्ध इति भावः]।

Satishji's सूत्र-सूचिः

वृत्ति: स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड् वा स्यात् । An आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः optionally gets the augment इट् when following a verbal root that is ऊदित् (has ऊकार: as a इत्) or the verbal root √स्वृ (स्वृ शब्दोपतापयोः १. १०८१) or √सू (षूङ् प्राणिगर्भविमोचने २. २५) or √सू (षूङ् प्राणिप्रसवे ४. २७) or √धू (धूञ् कम्पने ५. १०, ९. २०).

Example continued from 3-1-31.

गुप् + स्य + ति
= गुप् + स्य + ति or गुप् + इस्य + ति 7-2-44, 1-1-46, 1-3-3, 1-3-9
= गोप् + स्य + ति or गोप् + इस्य + ति 7-3-86
= गोप्स्यति or गोपिष्यति 8-3-59

So there a total of three alternate forms गोपायिष्यति or गोप्स्यति or गोपिष्यति।

Similarly in the विवक्षा of लुँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्, there a total of three alternate forms गोपायिता or गोप्ता or गोपिता।