Table of Contents

<<7-2-69 —- 7-2-71>>

7-2-70 ऋद्धनोः स्ये

प्रथमावृत्तिः

TBD.

काशिका

ऋकारान्तानां धातूनां हन्तेश्च स्ये इडागमो भवति। करिष्यति। हरिष्यति। हनिस्यति। स्वरतेर् वेट्त्वातृद्धनोः स्ये इत्येतद् भवति विप्रतिषेधेन। स्वरिष्यति। तपरकरणं विस्पष्टार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

203 लृटि स्ये इण्निषेधे प्राप्ते– ऋद्धनोः। ऋत् हन् अनयोद्र्वन्द्वात्पञ्चम्यर्ते षष्ठी। `स्ये'षष्ठ\उfffद्र्थे सप्तमी। `आद्र्धधातुस्ये'डित्यत इडित्यनुवर्तते। तदाह–ऋत इत्यादिना। `एकाच' इतीणनिषेधस्यापवादः। भरिष्यतीति। भरिष्यते। भरतु भरताम्. अभरत् अभरत। भरेत् भरेत।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्ति: ऋतो हन्तेश्च स्यस्येट् । The affix “स्य” (prescribed by 3-1-33 स्यतासी लृलुटोः) gets the augment इट् when following a verbal root that ends in a ऋकार: or the verbal root √हन् (हनँ हिंसागत्योः २. २).

गीतासु उदाहरणम् – करिष्यति derived from √कृ (डुकृञ् करणे ८. १०). विवक्षा is लृँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्। प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति || 3-33||

कृ + लृँट् 3-3-13
= कृ + ल् 1-3-2, 1-3-3, 1-3-9
= कृ + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= कृ + ति 1-3-3, 1-3-9
= कृ + स्य + ति 3-1-33
= कृ + इट् स्य + ति 7-2-70, 1-1-46. Note: In the absence of 7-2-70, 7-2-10 would have blocked 7-2-35.
= कृ + इस्य + ति 1-3-3, 1-3-9
= कर् + इस्य + ति 7-3-84, 1-1-51
= करिष्यति 8-3-59

Similarly – हनिष्यति derived from √हन् (हनँ हिंसागत्योः २. २). विवक्षा is लृँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।