TBD.
ऋदन्ताद् धातोः संयोगादेः उत्तरयोः लिङ्सिचोरात्मनेपदेषु वा इडागमो भवति। ध्वृषीष्ट, ध्वरिषीष्ट। स्मृषीष्ट, समरिषीष्ट। अध्वृषाताम्, अध्वरिषाताम्। अस्मृषाताम्, अस्मरिषाताम्। ऋत इति किम्? च्योषीष्ट। प्लोषीष्ट। अच्योष्ट। अप्लोष्ट। संयोगादेः इति किम्? कृषीष्ट। हृषीष्ट। अकृत। अहृत आत्मनेपदेषु इत्येव, अध्वार्षीत्। अस्मार्षीत्। संस्कृषीष्ट, समस्कृत इत्यत्र उपदेशाधिकारात्, अभाक्तत्वाच् च सुट इडागमो न भवति।
TBD.
652 ऋदन्तात्संयोगादेः परयोः लिङ्सिचोरिड्वा स्यात्तङि. स्तरिषीष्ट, स्तृषीष्ट. अस्तरिष्ट, अस्तृत.. धूञ् कम्पने.. 4.. धूनोति, धूनुते. दुधाव. स्वरतीति वेट्. दुधविथ, दुधोथ..
356 ऋतश्च संयोगादेः। `लिङ्सिचोरात्मनेपदेषु' इत्यनुवर्तते। `इट् सनि वे'त्त इड्वेति। तदाह– ऋदन्तादित्यादिना। लुङि परस्मैपदे– अस्तार्षीत् लुङस्तङि त्वाह– - अस्तरिष्ट अस्तृतेति। `ऋतश्च संयोगादे'रिति इट्पक्षे गुणः। इडभावपक्षे तु `ह्यस्वादङ्गा'दिति सिचो लोपः। कृञ् हिंसायाम्। चकर्थेति। `कृसृभृवृ' इति थल्यपि नित्यमिण्निषेधः। चकृव। क्रियादिति।आशीर्लिङि `रिङ् शयग्लिङ्क्षु' इति रिङ्। कृषीष्टेति। `उश्चे'ति कित्त्वान्न गुणः। अकार्षीदिति।सिचि वृद्धि। रपरत्वम्। अकृतेति। `ह्यस्वादङ्गा'दिति सिचो लोपः। वृञ् वरणे।सेट्। ववार। वव्रतुः। वव्रुः।
311 `इट् सनि वे'त्यत इट् वेत्यनुवर्तते। `लिङ्सिचो'रिति सूत्रादात्नेपदेष्विति च। तदाह– इड्? वा स्यात्तङीति। तङि किम् ?। स्तर्यात्। अस्तार्षीत्।
वृत्ति: ऋदन्तात्संयोगादेः परयोर्लिङ्सिचोरिड्वा स्यात्तङि। In आत्मनेपदम्, a लिँङ् affix or the affix सिँच् optionally takes the augment इट् if the affix follows a verbal root which ends in a ऋकार: and begins with a संयोग: (conjunct consonant.)
उदाहरणम् – स्तृषीष्ट/स्तरिषीष्ट derived from √स्तृ (स्तृञ् आच्छादने ५. ६). विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, आत्मनेपद-प्रत्यय:।
स्तृ + लिँङ् (आशिषि) 3-3-173
= स्तृ + ल् 1-3-2, 1-3-3, 1-3-9
= स्तृ + त 3-4-78, 1-3-72, 1-4-100, 1-4-101, 1-4-102, 1-4-108. As per 3-4-116, the affix “त” has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-81 does not apply.
= स्तृ + सीयुट् त 3-4-102, 1-1-46
= स्तृ + सीय् त 1-3-3, 1-3-9. The उकार: in सीयुट् is उच्चारणार्थ:। As per 3-4-116, the affix “सीय् त” has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 does not apply.
= स्तृ + सीय् सुट् त 3-4-107, 1-1-46
= स्तृ + सीय् स् त 1-3-3, 1-3-9. The उकार: in सुट् is उच्चारणार्थ:।
= स्तृ + सीस्त 6-1-66. Now as per 7-2-43, the affix “सीस्त” takes the augment इट् optionally. Let us first consider the case where the augment इट् is not taken. In this case, the affix “सीस्त” is a कित् as per 1-2-12. Hence 1-1-5 stops 7-3-84
= स्तृषीष्ट 8-3-59 (applied twice), 8-4-41
Now let us consider the case where the augment इट् is taken.
= स्तृ + इट् सीस्त 7-2-43, 1-1-46
= स्तृ + इसीस्त 1-3-3, 1-3-9
= स्तर् + इसीस्त 7-3-84, 1-1-51. Note: 1-2-12 does not apply here because the affix “इसीस्त” does not begin with a झल् letter
= स्तरिषीष्ट 8-3-59 (applied twice), 8-4-41
Thus in आत्मनेपदम् there are two alternate forms स्तृषीष्ट and स्तरिषीष्ट।