Table of Contents

<<7-2-44 —- 7-2-46>>

7-2-45 रधादिभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

रध हिंसासंसिद्ध्योः इत्येवम् आदिभ्यो ऽष्टाभ्य उत्तरस्य वलादेरार्धधातुकस्य वा इडागमो भवति। रद्धा, रधिता। नंष्टा, नशिता। त्रप्ता, तर्प्ता, तर्पिता। द्रप्ता, दर्प्ता, दर्पिता। द्रोग्धा, द्रोढा, द्रोहिता। मोग्धा, मोढा, मोहिता, स्नोग्धा, स्नोढा, स्नोहिता। स्नेग्धा, स्नेढा, स्नेहिता। क्रादिनियमाल् लिटि रधादिभ्यः परत्वाद् विकल्पं केचिदिच्छन्ति। अपरे पुनराहुः, पूर्वविधेरिण्निषेधविधानसामर्थ्यात् बलीयस्त्वं प्रतिषेधनियमस्य इति नित्यमिटा भवितव्यम्। ररन्धिव, ररन्धिम इति भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

638 रध् नश् तृप् दृप् द्रुह् मुह् ष्णुह् ष्णिह् एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात्. नेशिथ..

बालमनोरमा

345 रधादिभ्यश्च। `आद्र्धधातुकस्येड्वलादे'रित्यनुवर्तते, `स्वरतिसूती'त्यतो वेति चेत्यभिप्रेत्य शेषं पूरयति– वलाद्याद्र्धधातुकस्य वेडिति। `आद्र्धधातुकस्ये'ति नित्ये प्राप्ते विकल्पोऽयम्। लुटि तासि इटि `रधिजभोरची'ति नुमि प्राप्ते–

तत्त्वबोधिनी

302 रधादिभ्यश्च। `स्वरतिसूति' इत्यतो वेत्यनुवर्तते। योगविभागो वैचित्र्यार्थः। गणनिर्दशाद्यङ्लुकि रारधितेत्येव न तु रारद्धेति।

Satishji's सूत्र-सूचिः

वृत्ति: रध् नश् तृप् दृप् द्रुह् मुह् ष्णुह् ष्णिह् एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात् । An आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः optionally gets the augment इट् when following the verbal root √रध् (रधँ हिंसासंराद्ध्योः ४. ९०) or √नश् (णशँ अदर्शने ४. ९१) or √तृप् (तृपँ प्रीणने ४. ९२) or √दृप् (दृपँ हर्षमोहनयोः ४. ९३) or √द्रुह् (द्रुहँ जिघांसायाम् ४. ९४) or √मुह् (मुहँ वैचित्त्ये ४. ९५) or √स्नुह् (ष्णुहँ उद्गिरणे ४. ९६) or √स्निह् (ष्णिहँ प्रीतौ ४. ९७).

Example continued from 7-1-60.

नश् + स्य + सि As per 7-2-45, the affix “स्य” optionally gets the augment इट्। Let us first consider the case where the augment इट् is not applied.
= न नुँम् श् + स्य + सि 7-1-60, 1-1-47
= न न् श् + स्य + सि 1-3-2, 1-3-3, 1-3-9
= न न् ष् + स्य + सि 8-2-36
= न न् क् + स्य + सि 8-2-41
= नं क् + स्य + सि 8-3-24
= नं क् + ष्य + सि 8-3-59
= नङ्क्ष्यसि 8-4-58

In the case where the augment इट् is applied the steps are as follows: नश् + स्य + सि
= नश् + इट् स्य + सि 7-2-45
= नश् + इस्य + सि 1-3-3, 1-3-9
= नशिष्यसि 8-3-59

Hence there are two alternate forms नङ्क्ष्यसि and नशिष्यसि।