TBD.
अदसः सौ परतः सकारस्य औकारादेशो भवति सोश्च लोपो भवति। असौ। औत्वप्रतिषेधः साकच्काद् वा वक्तव्यः सादुत्वं च। यदा च औत्वप्रतिषेधः तदा सकारादुत्तरस्य उत्वं भवति। असुकः। असुकौ। उत्तरपदभूतानां त्यदादीनाम् अकृतसन्धीनाम् आदेशा वक्तव्याः। परमाहम्। परमायम्। परमानेन। अदसः सोर्भवेदौत्वं किं सुलोपो विधीयते। ह्रस्वाल् लुप्येत सम्बुद्धिर् न हलः प्रकृतं हि तत्। आप एत्वं भवेत् तस्मिन् न झलीत्यनुवर्तनात्। प्रत्ययस्थाच्च कादित्वं शीभावश्च प्रसज्यते।
TBD.
357 अदस औकारोऽन्तादेशः स्यात्सौ परे सुलोपश्च. तदोरिति सः. असौ. त्यदाद्यत्वम्. वृद्धिः..
अदस्शब्दात्सौ त्यदाद्यत्वे प्राप्ते-अदस औ। `अदस इति षष्ठी। `औ' इत्यविभक्तिकनिर्देशः। `तदोः सः सौ' इत्यतः `सा वित्यनुवर्तते। तदाह–अदस इति। `अन्तादेश' इत्यलोन्त्यपरिभाषालभ्यम्। सकारस्य औत्त्वे कृते हलः परत्वाऽभावाद्धल्ङ्यादिलोपेऽप्राप्ते सुलोपविधिः। दस्य स इति। मुत्वापवाद इति भावः। असौ इति। अदस्स् इति स्थिते सकारस्य औत्त्वे, सुलोपे, दस्य सत्वे च रूपम्।\र्\नत `अव्ययसर्वनाम्ना मित्यकचि अदकस्शब्दात्सो विशेषमाह–औत्वप्रतिषेध इति। `अदस औ सुलोपश्चे'त्यत्र अदस्?शब्देन तन्मध्यपतितन्यायेन अदकस्शब्दस्यापि ग्रहणादौत्त्वे प्राप्ते विकल्पेन तत्प्रतिषेदो वक्तव्यः। `तदोः सः सौ' इति दकारस्य सकारे कृते तस्मात्सकारात्परस्य अकारस्य उकारश्च वा वक्तव्य इत्यर्थः। ततश्च अदकस्स् इति स्थिते, औत्वाऽभावे, दसय् सत्वे सति, सकारातपरस्य अकारस्य उत्वे सति, त्यदाद्यत्वे, पररूपे, रुत्वे, विसर्गे असुक इति रूपम्। औत्वप्रतिषेधाभावपक्षे अदकस्स् इति स्थिते, सकारस्य औत्वे, सुलोपे, दस्य सत्वे, असकौ इति रूपं वक्ष्यति। तत्र औत्वप्रतिषेधाऽभावपक्षे औत्वे कृते सकारादकारस्य उत्वविकल्पः कुतो न स्यादित्यत आह–प्रतिषेधेति। `सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः' इति न्यायादिति भावः। `अमुकः' `अमुकशर्मा' इत्यादि त्वसाध्वेवेत्याहुः। केचित्तु अदस्शब्दपर्यायोऽमुकशब्दोऽव्युत्पन्न इत्याहुः। अदस् औ इति स्थिते प्रक्रियां दर्शयति–त्यदाद्यत्वमिति। पररूपमपि बोध्यम्। मत्वोत्वे इति। `अदौ' इत्यत्र दात्परस्य औकारस्य दीर्घ ऊकारः, दस्य मत्वं चेत्यर्थः। जसि त्यदाद्यत्वं पररूपं च सिद्धवत्कृत्य आह–जसःशीति। आद्गुणे अदे इति स्थितम्।
389 अदस औ सुलोपश्च। `अदस इति षष्ठी। `तदोः सः सौ इत्यतः सावित्यनुवर्तते, तदाह– औकारोऽन्तादेशः स्यात्सौ पर इति। नन्वदस इति पञ्चम्येवाऽस्तु ततः परस्य सोरेवौकारो विधीयतां, त्यदाद्यत्वेन असाविति रूपं सिध्यति किं सुलोपविधानेन?। न च स्वरे भेदः, उदात्तेन सहेकादेश औकारस्योदात्तत्वात्। मैवम्। `असकौ स्त्री'त्यत्र टापि `पत्र्ययस्था'दितीत्त्वपर्सङ्गात्। असुक इति। औत्वाऽभावे त्यदाद्यत्वे सादुत्वम्। स्त्रियां तु `असुकौ'`असुका'इति। `अमुकी'`असुकी'ति च प्रयोगऽसाधुरेव। एवममुकशर्मेत्यादिरपि। `अदकःशर्मे'त्यादेरेव न्याय्यत्वात्।