Table of Contents

<<7-1-91 —- 7-1-93>>

7-1-92 सख्युरसम्बुद्धौ

प्रथमावृत्तिः

TBD.

काशिका

असम्बुद्धौ यः सखिशब्दः तस्मात् परं सर्वनामस्थानं णित् भवति। सखायौ। सखायः। असम्बुद्धौ इति किम्? हे सखे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

181 सख्युरङ्गात्परं संबुद्धिवर्जं सर्वनामस्थानं णिद्वत्स्यात्..

बालमनोरमा

251 सखि-औ इति स्थिते णित्कार्यं वृदिं?ध वक्ष्यन् णिद्वद्भावं दर्शयति- सख्युरसम्बुद्धो। `सख्यु'रिति दिग्योगे पञ्चमी। `अङ्स्ये'त्यधिकृतं पञ्चम्या विपरिणम्यते। `पर' मित्यध्याहार्यम्। `इतोऽत्सर्वनामस्थाने' इत्यतः `सर्वनामस्थाने' इत्यनुवर्तते। `असम्बुद्धा'वित्यभेदेनान्वेति। `गोतो णि'दित्यतो `णि'दिति प्रथमान्तमनुवृत्तम्। तत्सामानाधिकारण्या `दसम्बुद्धा'विति सर्वनामस्थाने'इति च सप्तमी प्रथमा कल्प्यते। तदाह-सख्युरङ्गादित्यादिना। णिद्वदिति। णित्कार्यकृत्स्यादित्यर्थः। णिच्छब्दस्तत्कार्यातिदेशार्थ इति भावः।

तत्त्वबोधिनी

212 सख्युरसंबुद्धौ। इह `इतोऽत्सर्वनामस्थाने'इत्यतः`सर्वनामस्थाने'इत्यनुवर्तते, तदसंबुद्धावित्यनेन विशेष्यते। `गोतो णि'दिति सूत्राण्णिदित्यनुवृत्तं तत्सामानाधिकरण्येन सप्तम्याः प्रथमा कल्प्यत इत्याह–संबुद्धिवर्ज्ज सर्वनामस्थानमिति। `सख्युरसंबुद्धि'रित्येव सूत्रयितुं युक्तमिति मनोरमायां स्थितम्। ननु`सखे'त्यत्रोपधादीर्घे बाधित्वना परत्वाद`त उपधाया'इति वृद्ध्या भाव्यं, सोर्णित्त्वादिति चेदत्राहुः-कृताऽकृतप्रसङ्गित्वमात्रेणापि नित्यत्वस्वीकारात्, अन्तरङ्गत्वाच्च `सखे'त्यत्र वृदिं?ध बाधित्वा `सर्वानामस्थाने चासंबुद्धौ' इत्युपधादीर्घेणैव भवतव्यम्, `सख्युरसंबुद्धा'विति णिद्वद्बावमुपजीव्याऽत्र पर्वर्तमानस्य `अत उपाधायाः'इत्यस्य बहिरङ्गत्वादिति।

Satishji's सूत्र-सूचिः

95) सख्युरसम्बुद्धौ 7-1-92

वृत्ति: सख्युरङ्गात् परं सम्बुद्धिवर्जं सर्वनामस्थानं णिद्वत् स्यात् । When following the word सखि that has the designation अङ्गम्, the non-vocative affixes that have the designation सर्वनामस्थानम् behave as if they have णकारः as an indicatory letter.

उदाहरणम् – सखि + औ – औ gets the designation सर्वनामस्थानम् by 1-1-43 and becomes णिद्वत् by the present rule.