Table of Contents

<<1-1-42 —- 1-1-44>>

1-1-43 सुडनपुंसकस्य

प्रथमावृत्तिः

TBD.

काशिका

सुटिति पञ्च वचनानि सर्वनामस्थानसंज्ञानि भवन्ति नपुंसकादन्यत्र। नपुंसके न विधिः, न प्रतिषेधः। तेन जसः शेः सर्वनामस्थानसंज्ञा पूर्वेण भवत्येव। राजा, राजानौ, राजानः। राजानम्, राजानौ। सुटिति किम्? राज्ञः पश्य। अनपुंसकस्य इति किम्? सामनी, वेमनी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

163 स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य..

बालमनोरमा

227 तत्र किं सर्वनामस्थानमित्यत आह–सुडनपुंसकस्य। `शि सर्वनामस्थान'मित्यतः `सर्वानामस्थान'मित्यनुवर्तते। अक्लीबं=नपुंसकभिन्नप्रातिपदिकं, तस्य सुट् सर्वनामस्थानसंज्ञं स्यादित्यर्थः। तत्र सुट्शब्दमप्रसिद्धार्थत्वाद्व्याचष्टे– सुडिति प्रत्याहार इति। `सु'इत्यत्र औटष्टकारेणे'ति शेषः। नतु टाटकारेण, प्रथमातिक्रमणे कारणाऽभावात्।

तत्त्वबोधिनी

192 सुडनपुंसकस्य। `सुट् स्त्रीपुंसयो'रिति वक्तव्येऽनपुंसकस्येति वचनं ज्ञापकं `प्रसज्यप्रतिषेधेऽपि नञ्समासोऽस्ती'ति कैयटः। तेन `असूर्यंपश्यानि मुखानी'त्यादि सिद्धम्।

Satishji's सूत्र-सूचिः

90) सुँडनपुंसकस्य 1-1-43

वृत्ति: स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य । The five affixes सुँ, औ, जस्, अम् and औट् get the designation सर्वनामस्थानम् but not if the base is neuter.

गीतासु उदाहरणम् – श्लोकः bg11-44

In our example (from above) the affix सुँ gets the designation सर्वनामस्थानम्