Table of Contents

<<7-1-83 —- 7-1-85>>

7-1-84 दिव औत्

प्रथमावृत्तिः

TBD.

काशिका

दिवित्येतस्य सौ परतः औतित्ययम् आदेशो भवति। द्यौः। दिविति प्रातिपदिकम् अस्ति निरनुबन्धकम्। धातुस् तु सानुबन्धकः, स इह न गृह्यते, अक्षद्यूः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

265 दिविति प्रातिपदिकस्यौत्स्यात्सौ. सुद्यौः. सुदिवौ..

बालमनोरमा

दिव औत्। `सावनडुहः' इत्यतः `सौ' इत्यनुवर्तते। `दिव' इति षष्ठ\उfffद्न्तम्। `दिवेर्ङिविः' इत्यौणादिकमव्युत्पन्नं वा प्रातिपदिकं गृह्रते, नतु `दिवुक्रीडादौ' इति धातुः, `निरनुबन्धग्रहणे न सानुबन्धकस्ये'ति न्यायात्। तदाह–दिविति प्रातिपदिकस्येति। औदिति तकार उच्चारणार्थो नत्वादेशे तकारः श्रूयते। एवं चानेकाल्त्वप्रयुक्तं सर्वादेशत्वं न। तकारस्य इत्संज्ञा तु न, फलाऽभावात्। तित्स्वरितस्य तु नात्र सम्भवः, `तितिप्रत्ययग्रहण'मिति वार्तिकात्। ननु सुदिव् सित्यत्र वकारस्यौत्त्वे इकारस्य यणि औकारस्य स्थानिवत्त्वेन हल्त्वाद्धल्ङ्यादिना सुलोपः स्यादित्यत आह्म–अल्विधित्वेनेति। औकारादेशस्थानिभूताद्वकारात्मकहलः परत्वमाश्रित्य प्रवर्तमानस्य सुलोपस्याऽल्विधित्वादिति भावः। सुद्यौरिति। आङ्गत्वात्तदन्तस्याप्यौत्त्वे यण्। रुत्वविसर्गौ। सुदिवाविति। अजादिषु सुदिव्?शब्दोऽविकृत एवेति भावः।

तत्त्वबोधिनी

296 दिव औत्। तकार उच्चारणार्थः। प्रतिपदिकस्येति। अव्युत्पन्नस्य, `दिवेर्डिवि'रिति न्यासोहितसूत्रेण व्युत्पन्नस्य वा ग्रहणं, नतु `दिवु क्रीडादौ'इति धातोः, `निरनुबन्धकग्रहणे न सानुबन्धकस्ये'ति परिभाषया। तेनाक्षद्यूरित्यादौ न भवति। न च तत्रान्तरङ्गत्वादूठेव स्यान्न तु औत्वप्रसक्तिरिति वाच्यम्, ऊठि कृतेऽप्येकदेशविकृतन्यायेन `दिव औ'दित्यास्यापि प्रसक्तिसंभवादिति दिक्।

Satishji's सूत्र-सूचिः

257) दिव औत्‌ 7-1-84

वृत्ति: दिविति प्रातिपदिकस्यौत्स्यात्सौ। The (ending letter) of the प्रातिपदिकम् “दिव्” gets replaced by an औकार: if the सुँ-प्रत्यय: follows.

उदाहरणम् – दिव् + सुँ 4-1-2 = दि औ + सुँ 7-1-84 = द्यौ: 6-1-77, 8-2-66, 8-3-15