TBD.
युजेरसमासे सर्वनामस्थाने परतो नुमागमो भवति। युङ्, युञ्जौ, युञ्जः। असमासे इति किम्? अश्वयुक्, अश्वयुजौ, अश्वयुजः। युजेः इति इकारनिर्देशात् युज समाधौ इत्यस्य ग्रहणं न भवति। युजमापन्ना ऋषयः।
TBD.
–
111 औङः श्याम् `आच्छीनद्योः' इति विकल्पे प्राप्त–शप्श्यनोर्नित्यम्। `आच्छीनद्योर्नुम्' इत्यनुवर्तते। `नाभ्यस्ताच्छतुः' इत्यतः शतुरित्यनुवर्तते। अवयव इति चाध्याह्यियते। तदाह–शप्श्यनोरादित्यादिना। पचन्ती इति। औङः श्यां नुमि रूपम्। पचन्तीति। जश्शसोः शौ सर्वनामस्थानत्वान्नुमि रूपम्। दीव्यदिति। दिवुधातोर्लटः शतरि श्यन्। `हलि चे'ति दीर्घः दीव्यच्छब्दात्स्वमोर्लुगिति भावः। दीव्यन्ती इति। औङः श्यां नुमि रूपम्। `शप्श्यनोः' इति नित्यं नुमिति भावः। दीव्यन्तीति। जश्शसोः शौ सर्वनामस्थानत्वान्नुमिति भावः। इति तान्ताः। अथ पान्ताः। स्वबिति। सु=शोभनाः आपो यस्मिन् सरसीति बहुव्रीहिः। `ऋक्पूरब्धूः' इति समासान्तस्तु न भवति, ` न पूजनात्' इति निषेधात्। `द्व्यन्तरुपसर्गेभ्योऽप ई'दिति न भवति, तत्र `अप' इति कृतसमासान्तग्रहणात्। स्वप्शब्दात्स्वमोर्लुगिति भावः। स्वपी इति। औङः श्यां रूपम्। असर्वनामस्थानत्वान्न नुमिति भावः। दीव्यन्तीति। जश्शसोः शौ सर्वनामस्थानत्वान्नुमिति भावः। इति तान्ताः। अथ पान्ताः। स्वबिति। सु=शोभनाः आपो यस्मिन् सरसीति बहुव्रीहिः। `ऋक्पूरब्धूः' इति समासान्तस्त#उ न भवति, `न पूजनात्' इति निषेधात्। `द्व्यन्तरूपसर्गेभ्योऽप ई'दिति न भवति, तत्र `अप' इति कृतसमासान्तग्रहणात्। स्वप्शब्दात्स्वमोर्लुगिति भावः। स्वपी इति। औङः श्यां रूपम्। असर्वनामस्थानत्वान्न नुमिति भावः। दीव्यन्तीति। जश्शसोः शौ स्वप् इ इति स्थिते, अप्तृन्' इति दीर्घे, झलन्तलक्षङणनुमि, अनुस्वारे, परसवर्णे, स्वाम्पीति वक्ष्यते। तत्र `अप्तृन्' इति दीर्घं बाधित्वा परत्वान्नित्यत्वाच्च नुमि कृते।ञकारस्य उपधात्वाऽभावात्कथं दीर्घ इत्यत आह–नित्यादित्यादि। प्रतिपदोक्तत्वादिति। `अपतृन्' इति दीर्घस्य अप्शब्दमुच्चार्य विहितत्वादित्यर्थः। ननु निरवकाशत्वं प्रतिपदोक्तत्वमिति `छदिरुपधिबलेर्ढ'ञिति सूत्रे `शेषाद्विभाषे'ति सूत्रे च भाष्ये स्थितम्। `अप्तृन्' इति दीर्घस्तु न निरवकाशः, `आप' इत्यत्र सावकाशत्वात्। अतोऽत्र नित्यत्वात्परत्वाच्चा पूर्वं नुमागमे कथं दीर्घ इत्याशङ्क्य इष्टापत्त्या परिहरति–निरवकाशत्वमित्यादि। स्वम्पीति। दीर्घं बाधित्वा नुमि अनुस्वारपरसवर्णाविति भावः। `केचित्तु `अपतृन्' इति दीर्घस्य निरवकाशत्वरूपप्रतिपदोक्तत्वाऽभावेऽपि प्रतिपदविधित्वेन शीघ्रोपस्थितिकतया प्रथमं प्रवृत्तौ `स्वाम्पो'त्येव युक्तमित्याहुः। इति पान्ताः। अथ षान्ताः। धनुश्शब्दं व्युत्पादयति–धनेरिति। `जनेरुसिः' इत्यत उसिरित्यनुवर्तमाने `अर्तिपृ?वपियजितनिधनितपिभ्यो नित्' इत्यौणादिकसूत्रेण `धन धान्ये' इत्यस्माद्धातोरुस्प्रत्यय इत्यर्थः। प्रत्ययावयत्वात्सस्य षत्वे धनुष्शब्दः। तस्मात्स्वमोर्लुक्। तत्र षकारस्य कथं रुत्वमित्यत आह-षत्वस्येति। धनुरिति। `र्वोरुपधायाः' इति दीर्घस्तु न, रेफान्तस्याधातुत्वात्। धनूंषीति। `नस्चे'त्यनुस्वारः। एवं चक्षुर्हविरादय इति। `चक्षेश्शिच्च' इत्युसिः। शित्त्वेन सार्वधातुकत्वात् ख्शाञादेशो न `अर्चिशुचिहुसृपि' इत्यादिना हुधातोरिस्, `सार्वधातुकार्धधातुकयोः' इति गुणः, अवादेशः। आदिना सर्पिरादयो ग्राह्राः। पिपठिषतेः क्विबिति। `पठ व्यक्तायां वाचि' सन्, इट् द्वित्वं, हलादि शेषः , अभ्यासाऽकारस्य इत्त्वं, प्रत्ययावयवत्वात् षत्वं, `सनाद्यन्ताः' इति धातुत्वम्। पिपठिष इत्यस्मात् क्विप् अतो लोपः, पिपठिष् इत्यस्मात् स्वमोर्लुक्, षत्वस्याऽसिद्धत्वाद्रुत्वम्। एतावत्सिद्धवत्कृत्य आह–र्वोरिति दीर्घे इति। पिपठिषी इति। औङः श्यां रूपम्। सौ विशेषमाह-अल्ल#ओपस्येति। बेभिच्छब्दनिरूपणे व्याख्यातमेतदनुपदमेव प्राक्। इति षान्तां। अथ सान्ताः। पय इति। `पयः क्षीरं पयोऽम्बु चे'त्यमरः। पयांसीति। शौ नुम्। `सान्ते'ति दीर्घः, अनुस्वार इति भावः। पयोभ्यामिति। रुत्वे, `हशि चे'त्युत्त्वे, गुण इति भावः। पुमान् यस्य गृहस्येति बहुव्रीहौ, सुपुंस्?शब्दात्स्वमोर्लुक्, संयोगान्तलोपः। संपुंसी इति। औङः श्यां रूपम्। सुपुमांसीति। शेःसर्वनामस्थानत्वात् `पुसोऽसुङ्' इत्यसुङ्। सुपुम्?स् इ इति स्थिते, झलन्तलक्षणनुमि, `सान्तमहतः' इति दीर्घः , `नश्चे'त्यनुस्वारश्चेति भावः। अद इति। अदस्?शब्दात् स्वमोर्लुक्, रुत्वविसर्गौ, सान्तत्वान्न मुत्वम्, लुका लुप्तत्वात्त्यदाद्यत्वं नेति भावः। औङादावाह– विभक्तिकार्यमिति। त्यदाद्यत्वादिकमित्यर्थः। उत्वमत्वे इति। `पूर्वत्रासिद्धिमि'ति विभक्तिकार्योत्तरमुत्वमत्वे इत्यर्थः। अमू इति। औङः शी, त्यदाद्यत्वं, पररूपं, गुणः, ऊत्वमत्वे इति भावः। अमूनीति। ञ्जश्शसोश्शिः, त्यदाद्यत्वं, पररूपम्। अजन्तत्वात् नुम्, उपधादीर्घः, ऊत्वमत्वे इति भावः। इति सान्ताः।
336 युजेरसमासे। `उगिदचा'मित्यतः `सर्वनामस्थाने'इत्यनुवर्तते। `इदितो नुम् धातो'रित्यतो `नुम्'चेत्याशयेनाह–सर्वमास्थाने नुम्स्यादिति।
TBD.