TBD.
शीङो ऽङ्गादुत्तरस्य झादेशस्य अतः रुडागमो भवति। शेरते। शेरताम्। अशेरत। रुडयं परादिः क्रियते। स यदि झकारस्य एव स्याददादेशो न स्यादित्यत एव अयम् आदेशस्य आगमो विधीयते। सानुबन्धग्रहणम् आङ्लुगर्थम्। तेन इह न भवति, व्यतिशेश्यते।
TBD.
606
273 शीङो रुट्। `झोऽन्तः' इत्यतो झ इत्यनुवर्तते। `अदभ्यस्ता' दित्यतोऽदित्यनुवृत्तं षष्ठ\उfffदा विपरिणम्यते। तदाह–शीङः परस्येति। रुटि उकार उच्चारणार्थः। टित्त्वादाद्यवयवः। शेध्वे इति। `षीध्वंलुङ्लिटा'मित्युक्तेर्न ढः। शिश्ये इति। शिश्यिषे। शिश्यिढ्वे–शिश्यिध्वे। शयितेति। शयिष्यते। शेताम् शयाताम् शेरताम्। सेष्व शयाथाम् शेध्वम्। शयै शयावहै शयामहै। अशेत अशयाताम् अशेरत। अशेथाः अशयाथाम्।अशेध्वम्। अशयि अशेवहि अशेमहि। शयीत। शयिषीष्ट। अशयिष्टेति। अशयिष्यतेत्यपि ज्ञेयम्। स्तौत्यन्ता इति। `ष्टुञ् स्तुता'वित्यतः प्राक्तना इत्यर्थः। ऊर्णुस्तूभयपदीति। ञित्त्वादिति भावः। यु मिश्रणेऽमिश्रणे चेति। अमिश्रणं पृथग्भावः। सेडयम्।
239 शीङो रुट्। `झोऽन्तः' इत्यतो `झ' इत्यनुवर्तते। `अदभ्यस्ता'दित्यतोऽदिति च। तथा चेष्टानुरोधेनाऽदिति प्रथमान्तस्य षष्ठ\उfffद्न्तत्वमाश्रित्य व्याचष्टे झादेशस्याऽत इति। झस्यैव रुडागमे तु अदादेशो दुर्लभ इत्यदित्यस्याप्यनुवृत्तिः कृता। शिश्ये इति। `एरनेकाचः' इति यण्। शेताम्। शयाताम्। शेरताम्। शेध्वम्।
389) शीङो रुट् 7-1-6
वृत्तिः शीडः परस्य झादेशस्यातो रुडागमः स्यात् । When following the verbal root √शी (शीङ् स्वप्ने २. २६), the “अत्” which comes in the place of the झकारः of a प्रत्ययः takes the augment “रुँट्”।
Example continued from above
शे + अते = शे + रुँट् अते 7-1-6, 1-1-46 = शेरते 1-3-2, 1-3-3