TBD.
सर्वशब्दः आदिर्येषां तानीमानि सर्वादीनि सर्वनामसंज्ञानि भवन्ति। सर्वः, सर्वौ, सर्वे। सर्वस्मै। सर्वस्मात्। सर्वेषाम्। सर्वस्मिन्। सर्वकः। विश्वः, विश्वौ, विस्वे। विश्वस्मै। विश्वस्मात्। विश्वेषाम्। विश्वस्मिन्। विश्वकः। उभ। उभय। उभशब्दस्य सर्वनामत्वे प्रयोजनम् सर्वनाम्नस्तृतीय च (2-3-27) इति। उभाभ्यां हेतुभ्यां वसति, उभयोः हेत्वोः वसति। उभये। उभयस्मै। उभयस्मात्। उभ्येषाम्। उभयस्मिन्। डतर, डतम। कतर, कतम। कतरस्मै, कतमस्मै। इतर। अन्य। अन्यतर। इतरस्मै। अन्यस्मै। अन्यतरसमै। त्वशब्दो ऽन्यवाची स्वरभेदाद् द्विः पठितः। एकः उदात्तः। द्वितीयो ऽनुदात्तः। केचित् तकारान्तमेकं पठन्ति। त्व त्वतिति द्वावपि च अनुदाताउ इति स्मरन्ति। नेमनेमस्मै। वक्ष्यमाणेन जसि विभाषा भवति। नेमे, नेमाः इति। समसमस्मै। कथं यथासङ्ख्यम् अनुदेशः समानाम् (1-3-10), समे देशे यजेत इति। समस्य सर्वशब्दपर्यायस्य सर्वनामस्ंज्ञा इष्य्ते, न सर्वत्र। सिमसिमस्मै। पूर्वपरावरदक्षिणौत्तरापराधराणि व्यवस्थायाम् असंज्ञायाम् (1-1-34)। स्वम् अंज्ञातिधनाऽख्याम् (1-1-35)। अन्तरं बहिर्योगोप्संव्यानयोः (1-1-36)। त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतु, किम्। सर्वादिः। सर्वनामप्रदेशाः सर्वनाम्नः स्मै (7-1-14) इत्येवम् आदयः।
TBD.
151 सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । स्वमज्ञातिधनाख्यायाम्. अन्तरं बहिर्योगोपसंव्यानयोः । त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम् ॥
सिद्धान्तकौमुदी 213 सर्वादीनि शब्दरूपाणि सर्वनामसंज्ञानि स्युः । तदन्तस्यापीयं संज्ञा । ’द्वन्द्वे च’ (1-1-31) इति ज्ञापकात् । तेन ’परमसर्वत्र’ इति त्रल् ’परमभवकान्’ इत्यत्राकच्च सिध्यति । Next 7-1-17
213 नपुंसकवशात् `शब्दरूपाणी'ति विशेष्यमद्याहार्यं, तदाह–सर्वादीनीति। ननु बहुव्रीहेरन्यपदार्थप्रधानत्वात्सर्वंशब्दस्य च समासवर्तिपदार्थत्वादन्यपदार्थत्वाबावाद्वि\उfffदाआदिशब्दानामेव सर्वादिशब्देन बहुव्रीहिणावगमात्सर्वनामसंज्ञा स्यान्न तु सर्वशब्दस्यापीति चेत्, उच्यते–सर्व आदिर्यस्य समुदायस्येति विग्रहः। सर्वशब्दघटितः समुदायः समासार्थः। समुदाये च प्रवर्तमाना सर्वनामसंज्ञा क्वचिदप्यप्रयुज्यमाने तस्मिन् वैयथ्र्यादानर्थक्यात्तदङ्गेष्विति न्यायेनावयवेष्ववतरन्ती अविशेषात्सर्वशब्देऽपि भवति। एवंचात्र सर्वशब्दस्य स्वरूपेण वर्तिपदार्थता, समुदायरूपेण त्वन्यपदार्थप्रवेशः। नच समुदायस्यान्यपदार्थत्वे सर्वादीनीति बहुवचनानुपपत्तिः शङ्क्याः, सर्वशब्दघटितस्य विवक्षितावयवसङ्ख्यस्य समूहस्यान्यपदार्थत्वात्। `अद्भूतावयवभेदः समुदायः समासार्थ' इति कैयटोक्तेरप्ययमेवार्थः। अतो न बहुवचनस्यानुपपत्तिः तदेवं व्याख्याने `हलि सर्वेषा'मित्यादिनिर्देशः प्रमाणम्। सर्वशब्दस्य सर्वनामत्वाऽभावे तु सर्वेषामित्यादौ सर्वनामकार्याणि सुडादीनि न स्युः। तथाच सर्वादीनीति तद्गुणसंविज्ञानो बहुव्रीहिः। तस्य=अन्यपदार्थस्य, गुण#आ#ः=विशेषणानि वर्तिपदार्थरूपाणि, तेषां संविज्ञानं=क्रियान्वयितया विज्ञानं यत्र स तद्गुणसंविज्ञान इति व्यत्पत्तिः। यत्र संयोगसमवायान्यतरसंबन्धेनान्यपदार्थे वर्तिपदार्थान्वयस्तत्र प्रायेण तद्गुणसंविज्ञानो बहुव्रीहिः। यथा-`द्विवासा देवदत्तो भुङ्क्ते', `लम्बकर्णं भोजये'त्यादौ। तत्पर हि वाससोः कर्णयोश्च भुजिक्रियान्वयाऽभावेऽपि संनिहितत्वमात्रेण तद्गुणसंविज्ञानत्वम्। प्रकृते च समुदाये।ञन्यपदार्थे सर्वशब्दस्य समवायान्तर्गतारोपितावयवावयविभावसंबन्धसत्त्वात्तद्गुणसंविज्ञानत्वम्। स्वस्वामिभावादिसम्बन्धेनान्यपदार्थे वर्तिपदार्थान्वये त्वतद्गुणसंविज्ञानो बहुव्रीहिः। यथा–`चित्रगुमानये'त्यादावित्यलम्। सर्वादिशब्दानां केवलानामेव सर्वादिगणे पाठात्परमसर्वादिशब्दानां कथं सर्वनामतेत्यत आह–तदन्तस्यापीति। द्वन्द्वे चेतीति। `द्वन्द्वे चे'त्यनेन सर्वादिशब्दान्तद्वन्द्वस्य सर्वनामसंज्ञा प्रतिषिध्यते–वर्णाश्रमेतराणामित्यादौ। यदि केवलानामेव सर्वादिगणपठितानां केवलानामेव सर्वादिशब्दानामस्तु सर्वनामता, मास्तु तदन्तानामपि, `सर्वनाम्नः स्मै' इत्यादिसर्वनामकार्याणामङ्गाधिकारस्थत्वेन `पदाङ्गाधिकारे तस्य च तदन्तस्य चे'ति परिभाषया `परमसर्वस्मै' इत्यादिषु। सिद्धेरित्यत आह–तेनेति। तदन्तस्यापि संज्ञाबलेनेत्यर्थः। सिध्यतीत्यर्थः। चकारात्पञ्चम्यास्तसिलिति तसिल् च। नचावयवगतसर्वनामत्वेन तत्सिद्धिरिति वाच्यं , कुत्सित #इति सूत्रस्थभाष्यरीत्या सह्ख्याकारकाभ्यां पूर्णार्थस्येतरान्वयेन सुबन्तादेव तद्धितोत्पत्त्यवगमेन सर्वनामप्रकृतिकसुबन्तार्थगतकुत्सादिविवक्षायां सर्वनामावयवटेः प्रागकजित्यर्थपर्यवसानात्तदन्तसंज्ञाऽभावे तदसिद्धेरिति भावः।
178 सर्वादीनीति। तद्गुणसंविज्ञानो बहुव्रीहिरयम्। `अदः सर्वेषा'मिति लिङ्गम्। आदिशब्दोऽत्रावयववाची। सर्व आदिराद्यावययो येषां तानीति विग्रहः। उद्भूतावयवभेदः समुदायः समासार्थं इति बहुवचनम्। तस्य समुदायस्य युगपल्लक्ष्ये प्रयोगाभावात् `आनर्थक्यात्तदङ्गेषु' इति न्यायेन तदवयवेषु प्रवर्तमाना सर्वनामसंज्ञाऽविशेषात्सर्वशब्देऽपि प्रवर्तत इति युक्तं तद्गुणसंविज्ञानत्वम्। तस्यान्यपदार्थस्य गुणा वर्तिपदार्थरूपाणि विशेषणानि तेषा कार्यान्वयितया संविज्ञानं यत्र स तद्गुणसंविज्ञान इत्यक्षरार्थः। लोकवेदयोरपि संयोगसमवायान्यतरसम्बन्धे `लोहितोष्णीषाऋत्विजश्चरन्ति,'`लम्बकर्णमानये'त्यादौ तद्गुणसंविज्ञानत्वमेव। स्वस्वामिभावसंबन्धे त्वतद्गुणसंविज्ञानत्वं `चित्रगुमानये'त्यादौ। ननु `सर्वनामानी'त्यत्र `पूर्वपदात्संज्ञाया'मिति णत्वं कस्मान्न भवति ?। सौत्रत्वान्नेति चेत्,लोके सर्वनामशब्दस्याऽसाधुत्वापत्त्या `सर्वनामसंज्ञानि स्यु'रित्युत्तरग्रन्थस्याऽसाधुत्वापत्तेरिति चेन्मैवम्। `निपातनाण्णत्वं ने'ति भाष्योक्तव्याख्याश्रयणादिष्टसिद्धेः। अत्र भाष्यानुसाराद्बाधकान्येव निपातनानि भवन्तीति पक्ष आश्रितः। `अब#आधकान्यपि निपातनानि भवन्ती'त् पक्षस्तु `विभाषा फाल्गुनी'ति सूत्रे श्रवणाशब्दे निपातितेऽपि `श्रावणी'ति प्रयोगोऽपि साधुरित्येवमर्थमाश्रयिष्यते। विशेषणानुगुणं विशेष्यमध्याहरति-शब्दस्वरूपाणीति। द्वन्द्वे चेति। स हि निषेधः समुदायस्यैव न त्ववयवानामिति वक्ष्यति, न च तदन्तविधिं विना समुदाये संज्ञाप्रसक्तिरस्तीति भावः। नन्वङ्गाधिरकारे तदन्तविधिं विनैव `परमसर्वस्मै' इत्यादौ स्मायादिसिद्धेस्तदन्तसंज्ञायाः किं फलमित्यत आह–तेनेति। न चेहापि `प्रातिपदिका'दित्यनुवृत्ते सर्वनाम्नस्तद्विशेषणत्वे तदन्तविधिर्भविष्यतीति वाच्यं, `समासप्रत्ययविधौ प्रतिषेधः' इत्युक्तत्वादिति भावः। अकच्चेति चकारात्परमसर्वत इत्यत्र तसिल्।
69) सर्वादीनि सर्वनामानि 1-1-27
वृत्ति: सर्वादीनि शब्दस्वरूपाणि सर्वनामसंज्ञानि स्यु: । The list of terms starting with “सर्व” are called सर्वनामानि (pronouns.)
Please see example under the next rule.