Table of Contents

<<6-4-60 —- 6-4-62>>

6-4-61 वा आक्रोशदैन्ययोः

प्रथमावृत्तिः

TBD.

काशिका

आक्रोशे गम्यमाने दैन्ये च क्षियो निष्ठायाम् अण्यदर्थे वा दीर्घो भवति। क्षितायुरेधि, क्षीणायुरेधि। दैन्ये क्षितकः, क्षीणकः। क्षितो ऽयं तपस्वी, क्षीणो ऽयं तपस्वी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

887 वाऽऽक्रोशदैन्ययो-। अण्यदर्थ इत्यनुवर्तते। `ण्यदर्थो भावकर्मणी'इत्युक्तम्. आक्रोशे उदाहरति– क्षीणायुर्भवेति। `गत्यर्थाकर्मके'ति कर्तरि क्तः। दैन्ये उदाहरति– क्षीणोऽयं तपस्वीति। कृश इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.