TBD.
दीङो युडागमो भवति अजादौ क्ङिति प्रत्यये परतः। उपदिदीये, उपदिदीयाते, उपदिदीयिरे। दीङः इति पञ्चमीनिर्देशादजादेर् युडागमो भवति। विधानसामर्थ्याच् च एरनेकाचो ऽसंयोगपूर्वस्य 6-4-82 इति यणादेशे कर्तव्ये तस्य सिद्धत्वं न भवति। अचि इति किम्? उपदेदीयते। क्ङिति इति किम्? उपदानम्।
TBD.
640 दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट्. (वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ). दिदीये..
336 दीङो युडचि। `आद्र्धधातुके' इत्यधिकृतमचा विशेष्यते। तदादिविधिः। `दीङ' इति पञ्चमी। सप्तमी षष्ठ\उfffद्र्थे।तदाह–दीङः परस्येत्यादिना। दिदी ए इति स्थिते परत्वात् `एरनेकाचः' इति यणि प्राप्ते नित्यत्वाद्युट्। टकार इत्। उकार उच्चारणार्थः। टित्त्वादाद्यवयवः। दिदीये इति रूपमिति भावः। ननु युटि कृतेऽपि तस्याऽसिद्धत्वाद्यण्दुर्वारः। तथाच दिद्?य्ये इति स्यात्। इकारो न श्रूयेत, यकारद्वयं श्रूयेतेत्यत आह—वुग्युटाविति।
292 दीङो। पञ्चमीत्यभिप्रायेण व्याचष्टे– परस्येति। अजादेरिति। `डऋ सी'त्यत्रेव `उभयनिर्देशे पञ्चमीनिर्देशो बलीया'निति सप्तम्याः षष्ठीकल्पनम्। अचि किम् ?। देदीयते। क्ङितीति किम् ?। उपादानम्। आभीयत्वेनाऽसिद्धत्वमाशङ्क्याह- - वुग्युटाविति। परमपि यणं बाधित्वा नित्यत्वादादौ युट्। सति तु यणि ईकारस्य श्रवणं न स्यादिति युटः सिद्धत्वमुक्तम्।
TBD.