TBD.
ल्यपि परतो लघुपूर्वाद् वर्णादुत्तरस्य णेः अयादेशो भवति। प्रणमय्य, प्रतमय्य, प्रदमय्य, प्रशमय्य, सन्दम्य्य गतः। प्रबेभिदय्य गतः। प्रगणय्य गतः। ह्रस्वयलोपाल् लोपानाम् असिद्धत्वं न भवति असमानाश्रयत्वात्, ह्रस्वादयो हि णौ, ल्यपि णेरयादेशो भवति। लघुपूर्वातिति किम्? प्रपात्य गतः।
TBD.
–
–
1604 लघुपूर्वादिति। लघुः पूर्वो यस्माद्वर्मात्। लघुपूर्ववर्णात्परस्येत्यर्थः। विगणय्येति। नन्विह णौ कुतस्याऽल्लोपस्य पूर्वस्माद्विधौ स्थानिवद्भावाल्लघुपूर्वकवर्णात्परत्वं नास्ति। न चारम्भसामथ्र्यात्, अनुगमय्येत्यादौ मित्सु चरितार्थत्वात्। अत्रोच्यते– पूर्वस्माद्विधौ स्थानिवत्त्वमनित्यं, `निष्ठायां सेटी'ति लिङ्गात्। तथा चात्र स्थानिवत्त्वाऽभावाण्णेरयादेशो भवत्येव। `निष्ठायां सेटी'त्यस्याऽनित्यत्वज्ञापकत्वं तु `अचः परस्मि'न्निति सूत्र एवास्माभिरुपपादितमिति नात्रो?पपाद्यते। प्रणमय्येति। अमन्तत्वान्मित्त्वे, मितां ह्यस्वः। प्रबेभिदय्येति। भिदेर्यङन्ताद्बेभिद्येत्यस्माण्णिच्यल्लोपे `यस्य हलः' इति यलोपः। ननु ह्यस्वलोपाऽल्लोपानामाभीयत्वेनाऽसिद्धत्वाल्लघुपूर्वकवर्णात्परो णिर्नास्तीति कथमिह णेरयादेशः स्#आदिति [गणयतीत्यादौ वा कथं स्यादिति] चेन्मैवम्, `असिद्धवदत्राभा'दित्यत्र `समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्या'दिति हि व्याख्यातम्। तेनात्राशङ्कैव नास्ति, ह्यस्वादयो हिणौ, णेरयादेशस्तु ल्यपि परत इति व्याश्रयत्वात्।
वृत्तिः लघुपूर्वात् परस्य णेरयादेश: स्यात् ल्यपि । The affix ‘णि’ is substituted by ‘अय्’ when the following two conditions are satisfied -
(i) ‘णि’ is preceded by a letter which itself is preceded by a vowel having the designation ‘लघु’ (ref. 1-4-10 ह्रस्वं लघु) and
(ii) ‘णि’ is followed by the affix ‘ल्यप्’।
उदाहरणम् – प्रणमय्य । प्रणमय्य is derived from a causative form of the verbal root √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६) preceded by the उपसर्ग: ‘प्र’।
नम् + णिच् 3-1-26
= नाम् + णिच् 7-2-116
= नम् + णिच् 6-4-92. Note: √नम् is a मित् (considered to have the letter ‘म्’ as a marker) as per the गण-सूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च।
= नम् + इ 1-3-3, 1-3-7, 1-3-9
= नमि । ‘नमि’ gets धातु-सञ्ज्ञा by 3-1-32
नमि + क्त्वा 3-4-21
‘नमि + क्त्वा’ is compounded with ‘प्र’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
प्र + नमि + क्त्वा 2-2-18
= प्र + नमि + ल्यप् 7-1-37, 1-1-55
= प्र + नमि + य 1-3-3, 1-3-8, 1-3-9
= प्र + नमय् + य 6-4-56
= प्रणमय्य 8-4-14. As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being an affix with the designation of कृत् (by 3-1-93). Hence ‘प्रणमय्य’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-40.