Table of Contents

<<6-4-33 —- 6-4-35>>

6-4-34 शास इदङ्हलोः

प्रथमावृत्तिः

TBD.

काशिका

शास उपधाया इकारादेशो भवति अङि परतो हलादौ च क्ङिति। अन्वशिषत्, अन्वशिषताम्, अन्वशिषन्। हलादौ कितिशिष्टः। शिष्टवान्। ङिति आवां शिष्वः। वयं शिष्मः। इत्त्वे कृते शासिवसिघसीनां च 8-3-60 इति षत्वम्। अङ्हलोः इति किम्? शासति। शशासतुः। शशासुः। क्वौ च शास इत्त्वं भवति इति वक्तव्यम्। आर्यान् शास्ति इति आर्यशीः। मित्रशीः। यस्मात् शासेः अङ् विहितः शासु अनुशिष्टौ इति, तस्य एव इदं ग्रहणम् इष्यते। आङः शासु इच्छायाम् इति अस्य न भवति। आशास्ते। आशास्यमानः। क्विप्प्रत्यये तु तस्य अपि भवति इति वक्तव्यम्। आशीः, आशिषौ, आशिषः। क्षियाशीःप्रैषेषु तिङाकाङ्क्षम् 8-2-104 इति निपातनाद् वा सिद्धम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

781 शास उपधाया इत्स्यादङि हलादौ क्ङिति. शिष्यः. वृत्यः. आदृत्यः. जुष्यः..

बालमनोरमा

316 शास इदङ्हलोः। `अनिदितां हलः' इत्यत उपधायाः क्ङिति इत्यनुवर्तते। तदा–शास उपधाया इति। शासतीति। जक्षादित्वेन अभ्यस्तत्वाददादेश इति भावः। शास्सि शिष्ठः शिष्ठ। शास्मि शिष्वः शिष्मः। `आशास्ते' इत्यत्र तु नेत्त्वम्, अड\उfffदोग्यस्य परस्मैपदिन एव ग्रहणादिति भाष्ये स्पष्टम्। शशासेति। शशासिथ। शासिता। शासिष्यति। शास् हि इति स्थिते आह—

तत्त्वबोधिनी

274 शास इदङ्हलोः। अङि अशिषत्। क्ङिति– शिष्टः। शिष्टवान्। शिष्यात्। शिष्यास्ताम्। अङ्साहचर्यात्परस्मैपद एवेत्वम्। नेह— आशास्ते। अन्ये तु यस्माच्छासेरङ् संभवति तस्यैवेत्वमिति व्याख्याय व्यतिशिष्टे व्यतिशिढ्वे इत्यात्मनेपदेऽपि इत्वं स्वीकुर्वन्ति।

Satishji's सूत्र-सूचिः

Video

वृत्तिः शास उपधाया इत् स्यादङि हलादौ क्ङिति । The penultimate letter (आकारः) of the verbal root √शास् (शासुँ अनुशिष्टौ २. ७०) is replaced by a इकारः when followed by either -
i) the affix “अङ्” or
ii) an affix which begins with a consonant and is either कित् or ङित् (has ककारः or ङकारः as a इत्)।

उदाहरणम् - शिष्यः derived from the verbal root √शास् (शासुँ अनुशिष्टौ २. ७०).

शास् + क्यप् 3-1-109
= शास् + य 1-3-3, 1-3-8, 1-3-9
= शिस् + य 6-4-34
= शिष्य 8-3-60

“शिष्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46