Table of Contents

<<8-2-103 —- 8-2-105>>

8-2-104 क्षियाऽअशीःप्रैषेषु तिङाकाङ्क्षम्

प्रथमावृत्तिः

TBD.

काशिका

स्वरितः इति वर्तते। क्षिया आचरभेदः, आशीः प्रार्थनाविशेषः, शब्देन व्यापारणम् प्रैषः, एतेषु गम्यमानेषु तिङन्तम् आकाङ्क्षणं यत् तस्य स्वरितः प्लुतो भवति। आकाङ्क्षति इति आकाङ्क्षम्, तिङन्तम् उत्तरपदम् आकाङ्क्षति इत्यर्थः। क्षियायां तावत् स्वयं रथेन याति3, उपाध्यायं पदातिं गमयति इति। स्वयम् ओदनं ह भुङ्क्ते3, उपाध्यायं सक्तून् पाययति। पूर्वम् अत्र तिङन्तम् उत्तरपदम् आकाङ्क्षति इति साकाङ्क्षं भवति। आशिषि सुतांश्च लप्सीष्ट3 धनं च तात। छन्दो ऽध्येषीष्ट3 व्याकरणम् च भद्र। प्रैषे कटं कुरु3 ग्रामं च गच्छ। यवान् लुनीहि3 सक्तूंश्च पिब। आकाङ्क्षम् इति किम्? दीर्घं ते आयुरस्तु। अग्नीन् विहर।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.