TBD.
अञ्चेः पूजायाम् अर्थे नकारस्य लोपो न भवति। अञ्चिता अस्य गुराः। अञ्चितम् एव शिरो वहति। अञ्चेः पूजयाम् 7-2-53 इति इडागमः। पूजायाम् इति किम्? उदक्तमुदकं कूपात्। उद्धृतम् इत्यर्थः। यस्य विभाषा 7-2-15 इति इट्प्रतिषेधः।
TBD.
343 पूजार्थस्याञ्चतेरुपधाया नस्य लोपो न. प्राङ्. प्राञ्चौ. नलोपाभावादलोपो न. प्राञ्चः. प्राङ्भ्याम्. प्राङ्क्षु.. एवं पूजार्थे प्रत्यङ्ङादयः.. क्रुङ्. क्रुञ्चौ. क्रुङ्भ्याम्.. पयोमुक्, पयोमुग्. पयोमुचौ. पयोमुग्भ्याम्.. उगित्त्वान्नुमि - ,
पूजार्थादञ्चुधातोः क्विनि `अनिदिता'मिति नलोपे प्राप्ते–नाऽञ्चेः। `अनिदिता'मिति सूत्रात् `उपधायाः' `क्ङिती'त्यनुवर्तते। `श्नान्न लोपः' इत्यतो `नलोप' इत्यनुवर्तते। `ने'ति लुप्तषष्ठीकम्। तदाह–पूजार्थस्येत्यादिना। पूजाया गम्यत्वे सतीत्यर्थः, न त्वत्राञ्चुधातोः पूजार्थत्वमेवेह विवक्षितम्। अत एव `अञ्चितं गच्छती'त्यत्र नलोपो न। अञ्चतेरत्र समाधानमर्थः। समाहितो भूत्वा गच्छतीति गम्यते। समाधानं च अव्याकुलत्वम्, अव्याकुलं गच्छतीत्यर्थः। अव्याकुलगमने च पूजा गम्यते, नत्वञ्चतेरेव सोऽर्थ इति `अञ्चोनपादाने' इति सूत्रे भाष्यकैयटयोः स्पष्टम्। प्राङिति। प्रपूर्वादञ्चतेः क्विन्। प्रकर्षेण पूजनमञ्चेरर्थः। नलोपाऽभावे प्राञ्च इत्यतः सुबुत्पत्तिः। हल्ङ्यादिलोपः, संयोगान्तलोपः, ततोऽनुस्वारपरसवर्णनिवृत्तौ नकारस्य `क्विन्प्रत्ययस्य कुः' इति कुत्वेन ङकार इति भावः। प्राञ्चाविति। स्वाभाविकनकारस्य अनुस्वारपरसवर्णाविति भावः। अलुप्तेति। `उगिदचा'मित्यत्र नलोपिनोऽञ्चेतेरेव ग्रहणान्नुम्न। ततश्च नकारद्वयश्रवणं न शङ्क्यमिति भावः। नलोपाऽभावादिति। शसादावचि `अचः' इति लोपो न भवति। सुप्तनकारस्यैवाऽञ्चतेस्तत्र ग्रहणादिति भावः। प्राञ्च इति। प्र अञ्च् अस् इति स्थिते सवर्णदीर्घे रूपमिति भावः। `नाञ्चेः पूजाया'मित्यनारम्भे सुटि नुमैव रूपसिद्धावपि शसादावचि नकारश्रवणं न स्यात्, `अनिदिता'मिति लोपप्रसङ्गात्। असर्वनामस्थानतया `उगिदचा'मिति नुमश्चाऽप्रसक्तेरिति बोध्यम्। प्राङ्भ्यामिति। `स्वादिषु' इति पदत्वाच्चकारस्य संयोगान्तलोपेऽनुस्वारपरसवर्णनिवृत्तौ नकारस्य `क्विन्प्रत्ययस्ये'ति कुत्वेन ङकार इति भावः। इत्यादीति। प्राङ्भिः। प्राञ्चे, प्राङ्भ्याम्, प्राङ्भ्यः। प्राञ्चः, प्राञ्चोः, प्राञ्चाम्। प्राञ्चि, प्राञ्चोः। प्राङ्ख्ष्विति। `ङ्णोः कुक्टुक्' इति वा कुक्। `चयो द्वितीयाः' इति पक्षे खश्च बोध्यः। एवमिति। सुटि पूर्ववदेव रूपाणि। शसादावचि-प्रत्ययः। प्रत्यञ्चा। प्रत्यङ्भ्याम्। अमुमुयञ्चः। अमुमुयङ्भ्याम्। उदञ्चः। उदङ्भ्यामित्यादि ज्ञेयम्। क्रुञ्च कौटिल्येति। नलोपाभावोऽपीति। `अनिदिता'मिति नलोपाऽभावः, निरुपपदात्क्विन्नपि निपात्यत इत्यर्थः। सति तु नलोपे नकारो न श्रूयेत। `उगिदचा'मिति नुमः सर्वनामस्थानेऽप्यप्रवृत्तेः। वस्तुतस्तु स्वाभाविकञोपधस्यैव धातुपाठे निर्द#एशान्नलोपस्याऽत्र प्रसक्तिरेव नास्ति। अत एव `परेश्च घाङ्कयोः' इति सूत्रे भाष्ये `क्रुञ्चे'त्यत्र चकारे परे `चो कुः' इति कुत्वमाशङ्क्य ऋत्विगित्यादि सूत्रे क्रुञ्चेति निपातनात्कुत्वं नेत्युक्तं सङ्गच्छते। यदि तु नस्यानुस्वारपरसवर्णाभ्यां ञकारो निर्दिश्येत, तर्हि तस्य `चो कुः' इति कुत्वप्रसक्तिरेव नास्तीति तदसङ्गतिः स्यात्, कुत्वे कर्तव्ये परसवर्णस्याऽसिद्धत्वादित्यास्तां तावत्। नोपधत्वमभ्युपेत्य आह–क्रुङिति। हल्ङ्यादिलोपे संयोगान्तलोपे नकारस्य `क्विन्प्रत्ययस्ये'ति कुत्वम्। क्रुङ्भ्यामिति। संयोगान्तलोपे नकारस्य कुत्वं ङकारः। अत्र प्रथमैकवचने भ्यामादावपि कुत्वं निपातनादेव न भवति, चवर्गपञ्चमञकार एव सर्वत्रेति `परेश्च घाङ्कयोः' इति सूत्रभाष्यकैयटस्वरसः। पयोमुगिति। `मुच्लृ मोक्षणे'क्विप्। सुपूर्वात् `ओ व्रस्चू छेदने' इति धातोः क्विपि `ग्राहिज्ये'ति सम्प्रसारणे सुवृश्च्शब्दः। तस्य विशेषमाह-षत्वमिति। हल्ङ्यादिना सुलोपे कृते चकारस्य षत्वमित्यर्थः। सलोप इति। धातुपाठे व्रस्चू इति सस्य श्चुत्वे कृते `व्रश्चू' इति निर्देशः। तत्र श्चुत्वस्याऽसिद्धत्वात् `स्कोः' इति सकारस्य लोप इत्यर्थः। `वावसाने' इति चर्त्वे षस्य टः। तदभावे जश्त्वेन ड इत्यर्थः। सुवृट्?त्स्विति। चत्र्वस्याऽसिद्धत्वात्पूर्वं `डः सी'ति वा धुट्। ततस्चत्र्वमिति भावः। इति चान्ताः। अथ तान्ताः। अछ महच्छब्दे विशेषं वक्तुमाह–वर्तमाने। उणादिसूत्रमेतत्। निपात्यन्ते इति। तत्र `पृषु सेचने' `बृह वृद्धौ' अनयोर्गुणाऽभावः, महेः कर्मणि अतिप्रत्ययः, `गमेर्जगादेशश्चेति विशेषः। शतृवदिति। शतृप्रत्ययान्तवदित्यर्थः। उगित्त्वादिति। शतृवद्भावेन सुटि उगित्त्वान्नुमित्यर्थः। सान्तेति। सुटि महन्त स् औ इत्यादिस्थितौ नकारात्पूर्वस्य अकारस्य दीर्घ इत्यर्थः। मह्रते इति। कर्तरि कृत्' इति कत्र्रर्थं बाधित्वा निपातनात् `मह पूजायाम्' इति धातोः कर्मणि अतिप्रत्यय इति भावः। महानिति। नुमि दीर्घे सुलोपे संयोगान्तलोप इति भावः। महान्ताविति। नुमि दीर्घे अनुस्वारपरसवर्णाविति भावः। हे महन्निति। असंबुद्धावित्यनुवृत्तेः `सान्तमहतः' इति दीर्घो नेति भावः। महत इति। असर्वनामस्थानत्वाच्छसादौ न दीर्घः। धीरस्यास्तीत्यर्थे धीशब्दान्मतुप्, पकार इत्, उकार उच्चारणार्थः। तद्धितान्तत्वेन प्रातिपदिकत्वात्सुबुत्पत्तिः।
376 नाञ्चेऋ। नुमैव सिद्धे `प्राञ्चः 'प्राञ्चे`त्यादौ नुमोऽभावेऽपि नकारश्रवणार्थः। प्राङिति। प्रकर्षेणाऽञ्चति पूजयतीति पूजार्थादञ्चेः क्विन्। प्रङ्क्षिति। `ङ्णोः कुक्टु'गिति वा कुक्। `चयो द्वितीया'इति क्षे खकारोऽपि बोध्यः। एवमिति। शसादिषु–प्रत्यञ्चः। प्रत्यङ्भ्याम्। अमुमुयञ्चः अमुमुयङ्भ्याम्। उदञ्चः। उदङ्भ्यामित्यादि ज्ञेयम्। क्रुञ्चतीति क्रुङ्। सलोप इति। श्चुत्वस्याऽसिद्धत्वात्पूर्वं `डः सी'ति वा धुट्। ततश्चत्र्वम्। इति चान्ताः। निपात्यन्तः इति। `पृषु सेचने'। `बृह वृद्धौ'। अत्र गुणाऽभावः। महेः कर्मणि प्रत्ययः। अतएव मह्रते पूज्यते महानिति व्याचष्टे। गमेस्तु जगादेशः। चत्वारोऽप्यतिप्रत्ययान्ताः। एतच्चोणादिषु स्फुटीकरिष्यते।
TBD.