Table of Contents

<<6-4-28 —- 6-4-30>>

6-4-29 अवोदएद्ःओद्मप्रश्रथहिमश्रथाः

प्रथमावृत्तिः

TBD.

काशिका

अवोद एध ओद्म प्रश्रथ हिमश्रथ इत्येते निपात्यन्ते। अवोद इति उन्देरवपूर्वस्य घञि नलोपो निपात्यते। एध इति इन्धेर् घञि नलोपो गुणश्च निपात्यते। न धातुलोप आर्धधातुके 1-1-4 इति हि प्रतिषेधः स्यात्। ओद्म इति उन्देरौणादिके मन्प्रत्यये नलोपो गुणश्च निपात्यते। प्रश्रथ इति प्रपूर्वस्य श्रन्थेर्घञि नलोपो वृद्ध्यभवश्च निपात्यते। हिमश्रथ इति हिमपूर्वस्य श्रन्थेः घञ्येव निपातनम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1517 अवोदै। अवोद इति। उन्दी क्लेदनेऽवपूर्वः। घञि नलोपो निपात्यते। एध इति। इन्धेर्घञि नलोपो गुणश्च निपात्यते। `न धातुलोपे' इति निषेधादप्राप्ते गुणस्य निपातनमिति ज्ञेयम्। ओद्म इति। उन्देरौणादिके मन्प्रत्ययो नलोपो गुणश्चाऽत्रापि निपात्यते। श्रन्थेरिति। प्रपूर्वस्य हिमपूर्वस्य च घञि निपात्यते इति बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.