Table of Contents

<<6-4-30 —- 6-4-32>>

6-4-31 क्त्वि स्कन्दिस्यन्दोः

प्रथमावृत्तिः

TBD.

काशिका

क्त्वाप्रयये परतः स्कन्द स्यन्द इत्येतयोर् नकारलोपो न भवति। स्कन्त्वा। स्यन्त्वा। स्यन्देरूदित्वात् पक्षे इडागमः। स्यन्दित्वा। तत्र यदा इडागमः तदा न क्त्वा सेट् 1-2-18 इति कित्त्वप्रतिषेधादेव नलोपाभावः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1590 क्त्वि स्कन्दि। स्कन्दिर्गतिशोषणयोः। `इर इत्संज्ञेट ति वार्तिककादिकारमात्रस्येत्संज्ञा नेति `अनिदिता'मिति पर्युदासोऽत्र न प्रवर्तत इति स्कन्दिग्रहणम्। स्कन्त्वेति। `एकाच' इति नेट्।

Satishji's सूत्र-सूचिः

TBD.