Table of Contents

<<6-4-2 —- 6-4-4>>

6-4-3 नामि

प्रथमावृत्तिः

TBD.

काशिका

नाम् इति एतत् षष्ठीबहुवचनम् आगतनुट्कं गृह्यते। तस्मिन् परतोऽङ्गस्य दीर्घो भवति। अग्नीनाम्। वायुनाम्। कर्तॄणाम्। हर्तॄणाम्। अणः इत्येतदत्र निवृत्तम्। आगतनुट्कग्रहणम् उत्तरार्थम्, कृते च नुटि दीर्घप्रतिपत्त्यर्थम्। अन्यथा हि नुडेव न स्यात्।
नामि दीर्घ आमि चेत् स्यात् कृते दीर्घे न नुट् भवेत्।
वचनाद् यत्र तन्नास्ति नोपधायाश्च चर्मणाम्।।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

149 अजन्ताङ्गस्य दीर्घः. रामाणाम्. रामे. रामयोः. सुपि - एत्त्वे कृते..

बालमनोरमा

207 `राम-नाम्' इति स्थिते-नामि। `ढ्रलोप' इत्यनुवर्तते। दीर्घश्रुत्या च `अच' इत्युपस्थितम्। तेन चाङ्गं विशेष्यते। अतस्तदन्तविधिः। तदाह–अजन्तस्येति। `नुटि' इति न सूत्रितम्। `भृञः किन्नुट् चे'त्यौणादिकगन्प्रत्ययान्ते भृङ्गशब्दे ऋकारस्य दीर्घापत्तेः। `अङ्गानां पामना'मित्यादौ तु न दीर्घः, अर्थवद्ग्रहणपरिभाषया अर्थवत एव नामो ग्रहणात्पामादिलक्षणे नप्रत्यये टापि द्वितीयैकवचने अमि कृते त्रयाणामपि प्रत्ययानां प्रत्येकमर्थवत्त्वेऽपि समुदायस्यानर्थकत्वात्। ननु नामीति सनकारग्रहणं मास्तु, `अमि' इत्येव सूत्रयताम्। नच राम-आमित्यस्यां दशायां दीर्घे सति ह्यस्वान्तत्वाभावात् `ह्यस्वनद्यापः' इति नुट् न स्यादिति वाच्यम्। `ह्यस्वान्तान्नुडि'ति वचनसामथ्र्यात्कृतेऽपि दीर्घे भूतपूर्वगत्याश्रयणेन नुडुपपत्तेरिति चेन्न, सनकारनिर्देशस्य `नोपधाया' इत्युत्तरार्थत्वात्। यदि हि आमीत्येवोच्येत तर्हि `नोपाधायाः' इत्युत्तरसूत्रेऽपि आमीत्येवानुवर्तेत। ततश्च नान्तस्योपधाया दीर्घः स्यादामीत्येव लभ्येत। एवं सति `चर्मणां' `वर्मणा'मित्यादावपि दीर्घः स्यात्। अतो `नामी'ति सनकारनिर्देश इति भाष्ये स्पष्टमित्यलम्। `अटकुप्वाङि'ति णत्वं सिद्धवत्कृत्याह–रामाणामिति। नन्वत्र परत्वात् `सुपि चे'ति दीर्घ एवोपन्यसनीयः, न तु `नामी'ति दीर्घः, फलविशेषाऽभावोऽपि न्यायानुरोधेनैव शास्त्रप्रवृत्तेः `इको झल्' इति सूत्रे भाष्ये प्रपञ्चितत्वादिति शङ्कते–सुपि चेति दीर्घो यद्यपि पर इति। परिहरति–तथापीति। सन्निपातेति। ह्यस्वान्तसन्निपातमुपजीव्य प्रवृत्तस्य नुटो ह्यस्वविघातकं `सुपि चे'ति दीर्घं प्रति निमित्तत्वाऽसम्भवादिति भावः। नन्विह `नामी'ति दीर्घप्रवृत्तावपि सन्निपातपरिभाषाविरोधस्तुल्य इत्यत आह-नामीत्यनेनत्विति। यद्यत्र `नामी'ति दीर्घो न स्यात्तर्हि तदारम्भो व्यर्थः स्यात्। ततश्च निरवकाशत्वाद्रामाणामित्यादौ नामीति दीर्घः सन्निपातपरिभाषां बाधित्वा प्रवर्तते। `सुपि चे'ति दीर्घस्तु रामाभ्यामित्यादौ सावकाशत्वाद्रामाणामित्यादौ नामि परे सन्निपातपरिभाषां न बाधितुमर्हति। तस्माद्रामाणामित्यादौ नामि परे दीर्घप्रवृत्तौ सन्निपातपरिभाषां बाधितुं नामीति दीर्घारम्भः। ननु `नामी'ति दीर्घो निरवकाशत्वात्सन्निपातपरिभाषां बाधत इत्ययुक्तम्, यत्र ह्यस्वान्तसन्निपातमनुपजीव्यैव नुटः प्रवृत्तिस्तत्र सन्निपातपरिभाषानुपमर्देनैव नामीति दीर्घप्रवृत्तेः सावकाशत्वात्। यथा- कतीनामीत्यत्र। तत्र हि `षट्चतुभ्र्यः' इति नुट्। षट्संज्ञकेभ्यश्चतुरश्च परस्याऽऽमो नुट् स्यादिति हि तदर्थ इति चेत्, एवं हि सति `कतेर्नामी'त्येव सूत्र्येत। अजन्तस्याङ्गस्य नामि दीर्घ इत्येवंपरं नामीति सामान्यसूत्रं नारम्भणीयमित्यर्थः। अन्यथा मुद्गादणित्यनुपपत्तेरिति कैयटः। न चैवं सति कतिशब्दस्याधिकस्य प्रवेशे गौरवमिति वाच्यं, `न तिसृचतसृ' इति नामि दीर्घनिषेधाऽकरणेन लाघवात्। एवं च कतेर्नामीत्यनुक्त्वा नामीति सामान्यसूत्रारम्भसामथ्र्याद्रामाणामित्यादावपि नामीति दीर्घः सन्निपातपरिभाषां बाधित्वा निविशत इति युक्तम्। एवं च आरम्भसामथ्र्यादिति मूलमपि कतेर्नामीत्यनुक्त्वा नामीति सामान्यसूत्रारम्भसामथ्र्यादत व्याख्येयमित्यलं विस्तरेण।\र्\नत सप्तमीविभक्तिः। ङेर्ङकार इत्। `राम-इ' इति स्थिते `आद्गुण' इति मत्वाह–राम इति। रामयोरिति। षष्ठीद्विवचनवत्। सुप्येत्वे कृत इति। पकारस्येत्त्वे, लोपे, `बहुवचने झल्येत्' इत्येत्त्वे कृत इत्यर्थः।

तत्त्वबोधिनी

174 नामि। `ढ्रलोपे'-इत्यतो `दीर्घ' इत्यनुवत्र्तते। दीर्घश्रुत्योपस्थितेनाऽच इत्यनेनाङ्गस्येति विशेष्यते। विशेषणेन न तदन्तविधिः। तदेतदाह- अजन्ताङ्गस्येत्यादि। अर्थवद्ग्रहणपरिभाषया `नामी'ति नुट् सहित एवाऽऽम् गृह्रते। तेन पामनाम्, अङ्गनामित्यादौ न भवति। तत्र हि पामादिलक्षणे नप्रत्यये टापि द्वितीयैकवचने च कृते त्रयाणामपि प्रत्ययानां प्रत्येकमर्थवत्त्वेऽपि `ना'मिति समुदायस्यानर्थकत्वात्। यद्यपि नलोपस्याऽसिद्धत्वादनेन `पामना'मित्यत्र दीर्घः सुपरिहरः, तथापि `नोपधायाः' इत्यनेन तु स्यादेवेति बोध्यम्। `नुटि' इति तु न सूत्रितम्। `भृञः किन्नुट् च' इत्यौणादिकगन्प्रत्ययान्ते भृङ्गशब्दे मा भूदिति। स्यादेतत्। नुडागमस्याऽऽम्भक्तत्वादाम्ग्रहणेन सनकारोऽप्याम् ग्रहीष्यत इति `आमि' इत्येव सूत्रमस्तु। न चाऽऽमीति दीर्घस्य कृताकृतप्रसङ्गित्वेन नित्यत्वात्परमपि नुटं बाधित्वा अग्नीनामिन्दूनामित्यत्र दीर्घे कृते ह्यस्वाश्रयो नुट् न भवेदिति वाच्यम्, ह्यस्वान्तान्नुडिति वचनसामथ्र्यात्कृतेऽपि दीर्घे भूतपूर्वगत्याश्रयणेन तत्प्रवृत्तेः। नापि `न तिसृचतसृ' इति निषेधात्तिसृणां चतसृणामित्यत्र ह्यस्व#आन्तान्नुडिति वचनस्य प्रयोजनमस्तीति वाच्यम्। `चतसृणा'मित्यत्र `षट्चतुभ्र्यश्च' इत्यनेनैव नुट्सिद्धेः। `ह्यस्वनद्यापः'–इति सूत्रे `त्रेस्त्रयः' इत्यतः `त्रे'रित्यनुवर्त्त्य त्रिशब्दात्परस्यामो नुडिति व्याख्यानात्तिसृणामित्यत्रापि तत्सिद्धेः। यद्यपि नृणामित्यत्र प्रयोजनमस्ति, तथापि नैकमुदाहरणं प्रयोजयति। अन्यथा `नृनद्यापः' इत्येव वदेत्। तस्मादादमीत्युक्तौ न किंचिद्बाधकमस्तीत्यामः सनकारस्य ग्रहणं व्यर्थमिति चेत्, अत्रोच्यते, उत्तरार्थं सनकारग्रहणं कर्तव्यं, `नोपधायाः' इति दीर्घो न नुड्भवेत्। वचनाद्यत्र तन्नास्ति नोपधायाश्च वर्मणाम्' इति। अत्र वदन्ति- वचनाद्भूतपूर्वगत्याश्रयणेन तत्प्रवृत्तिरित्येतच्चिन्त्यम्। गौणत्वे `षट्चतुभ्र्यश्च' इति नुटोऽप्रवृत्त्या `प्रियचतसृणा'मित्यत्र नुडर्थं ह्यस्ववचनस्य चरितार्थत्वेन सामथ्र्यस्योपक्षयात्। तत्र हि `नुमचिर-' इति रादेशात्पूर्वविप्रतिषेधेन नुडिष्यत इति। तदयुक्तम्। `ऋन्नद्यापः' इति सूत्रितेऽपि ऋदन्तान्नुट् सिध्यत्येवेति ह्यस्वग्रहणसामथ्र्यस्यानुपक्षीणत्वादिति दिक्। परिभाषाविरोधादिति। `कृताकृतप्रसङ्गित्वेन `नामि' इति दीर्घस्याप्यनित्यत्वात्। आरम्भसामथ्र्यादिति। `सुपि च' इत्यस्य तु न सामथ्र्यं, रामाभ्यामित्यादौ सावकाशत्वादिति भावः। ननु `कतीना'मित्यत्र परत्वात् `षट्चतुभ्र्यश्च' इति नुटि `नामि' इति दीर्घः सन्निपातपरिभाषामबाधित्वैव प्रवर्तत इत्यारम्भसामथ्र्यस्योपक्षयात् `नामि' इति सूत्रमपि `रामाणा'मित्यत्र सन्निपातपरिभाषया न प्रवर्तते। तथा च `आचार्याणाम्' इति निर्देशेनोक्तपरिभाषाया अनित्यत्वमाश्रित्य `सुपि च' इति दीर्घ एव परत्वात्प्रवर्ततामिति चेत्। अत्र केचित्समाधयन्ति-चतुग्र्रहणसाहचर्याद्धलन्तषट्संज्ञकादेव परस्यामः षट्संज्ञाश्रयो नुड्भवति न तु कतिशब्दात्परस्यामः, तथा च `कतीना'मित्यत्र ह्यस्वाश्रय एव नुडित्यारम्भसामथ्र्यं नोपक्षीणमिति। तदपरे न क्षमन्ते। रेफो यथा हल्संज्ञकस्तथा अम्संज्ञकोऽपि भवतीत्यमन्तषट्संज्ञकादेव परस्यामः षट्संज्ञाश्रयो नुड्भवति न तु प्रियपञ्चां प्रियषषामित्यादाविति सिद्धान्ताद्बहिरङ्ग षट्संज्ञायो नुट्। तथा चान्तरङ्गत्वात्कतीनामित्यत्र ह्यस्वाश्रय एव नुडिति `नामि' इति दीर्घः सन्निपातपरिभाषां बाधित्वैव प्रवर्तते, ततश्चापम्भसामथ्र्यादिति मूलोक्तग्रन्थस्य न काप्यमुपपत्तिरिति समादधुः। इतरे तु `आरम्भसामथ्र्या'दित्यस्यायमर्थो `न तिसृचतसृ' इति निषेधारम्भसामथ्र्यादिति। `तिसृणा'मित्यत्र ह्यस्वान्तलक्षणे नुटि कृते `नामि' इति दीर्घप्रवृत्तौ हि `न तिसृ-' इति निषेध आरभ्यते। सन्निपातपरिभाषया दीर्घाऽप्रवृत्तौ तु किमनेन निषेधेन ?। अतो ज्ञायते `नामि' इति दीर्घ संनिपातपरिभाषां बाधत इति। यैस्तु `ह्यस्वनद्यापः-' इत्यत्र ह्यस्वग्रहणं प्रत्याख्यायते, तैस्तु `नामि' इति दीर्घे आरम्भसामथ्र्यं नाश्रयणीयमेव।

Satishji's सूत्र-सूचिः

67) नामि 6-4-3

वृत्ति: नामि परे अजन्ताङ्गस्य दीर्घ: । The ending vowel of an अङ्गम् gets elongated if followed by the term “नाम्” .

गीतासु उदाहरणम् – श्लोकः bg10-22

वेद + आम् = वेद + नाम् 7-1-54, 1-1-46 = वेदानाम्