Table of Contents

<<6-4-152 —- 6-4-154>>

6-4-153 बिल्वकाऽदिभ्यश् छस्य लुक्

प्रथमावृत्तिः

TBD.

काशिका

नडादिषु बल्वादयः पठ्यन्ते। नडादीनां कुक् च 4-2-91 इति कृतकुगागमा बिल्वकादयो भवन्ति। तेभ्यः उत्तरस्य छस्य भस्य तद्धिते परतो लुग् भवति। बिल्वा यस्यां सन्ति बिल्वकीया, तस्यां भवाः बैल्वकाः। वेणुकीया वैणुकाः। वेत्रकीया वैत्रकाः। वेतसकीया वैतसका। तृणकीया तार्णकाः। इक्षुकीया ऐक्षुकाः। काष्ठकीया काष्ठकाः। कपोतकीया कापोतकाः। क्रुञ्चायां ह्रस्वत्वं च। क्रुञ्चकीया क्रौञ्चकाः। छग्रहणम् किम्? छमात्रस्य लुग् यथा स्यात्, कुको निवृत्तिर् मा भूतिति। अन्यथा हि संनियोगशिष्टानाम् अन्यतरापाये उभयोरपि अभावः इति कुगपि निवर्तेत। लुग्ग्रहणं सर्वलोपो यथा स्याद्, यकारमात्रस्य मा भूत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

389 बिल्वरादिभ्यः। षाष्ठमिदं सूत्रम्। बिल्वकादीति-नडाद्यन्तर्गबिल्वादीनां कृतकुगागमानां निर्देशः। ककारादकार उच्चारणार्थः। तद्धिते इति। `आपत्यस्य च तद्धिते' इत्यतस्तदनुवृत्तेरिति भावः। बिल्वकीयेति। `नडादीनां कुक्चे'ति छः। प्रकृते कुक्च। बैल्वका इति। बिल्वकीयशब्दाद्भवार्थे अण्। तस्मिन्परे छस्य लुगिति भावः। वेत्रकीया इति। वैत्राणि अस्यां सन्तीत्यर्थे नडादित्वाच्छः, प्रकृते कुक्चेति भावः। वैत्रका इति। वेत्रकीयायां भवा इत्यर्थः। वेत्रकीया शब्दादणि छस्य लुगिति भावः। छस्य किमिति। एभ्यः परस्य छस्यैव संभव इति प्रश्नः। संनियोगेति। `संनियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्ति'रिति न्यायेनेत्यर्थः। `ढे लोपोऽकद्र्वाः' इत्यतो लोप इत्यनुवृत्त्यैव सिद्धे लुग्ग्रहणं किमर्थमित्यत आह– लुग्ग्रहणं सर्वलोपार्थमिति। प्रत्ययाऽदर्शनस्यैव लुक्शब्दार्थत्वात्कृत्स्नस्य ईयस्य लोपो लभ्यते इति भावः। लोपविधौ तु नैवं लभ्यते इत्याह–लोपो हीति। लोपविधौ `सूर्यतिष्ये'त्यतो `य उपधायाः' इत्यनुवृत्तौ बिल्वादिभ्यः परस्य छादेशभूतस्य ईयस्य उपधाभूतो यो यकारस्तस्य लोप इत्यर्थलाभाद्यकारमात्रस्य लोपः स्यात्। `यः उपधायाः' इत्यननुवृत्तौ तु `आदेः परस्ये'ति ईकारस्यैव लोपः स्यादिति भावः। द्यकारमात्रस्य लोपः स्यात्। `य उपधायाः' इत्यनननुवृत्तौ तु `आदेः परस्ये'ति ईकारस्यैव लोपः स्यादिति भावः। चातुरर्थिकाः।* स्वार्थिकणिजन्ताश्चुरादिधातवो निरूप्यन्ते। चुर स्तेये इति। रेफादकार उच्चारणार्थः, न त्वित्संज्ञकः, प्रयोजनाऽभावात्, `णिचश्च' ति पदव्यवस्थाया वक्ष्यमामत्वाच्च। एवमग्रेऽपि।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.