TBD.
भस्य टेर्लोपो भवति इष्ठेमेयस्सु परतः। पटु पटिष्ठः। पटिमा। पटीयान्। लघु लघिष्ठः। लघिमा। लघीयान्। णाविष्ठवत् प्रातिपदिकस्य कार्यं भवति इति वक्तव्यम्। किं प्रयोजनम्? पुंवद्भावरभावटिलोपयणादि. परार्थम्। पुंवद्भावः एनीमाचष्टे एतयति। श्येतयति। तसिलादिष्वाकृत्वसुचः 6-3-35 इति इष्ठे पुंवद्भावः उक्तः। रभावः पृथुमाचष्टे प्रथयति। म्रदयति। टिलोपः पटुनाचष्टे पटयति। लघयति। यणादिपरम् स्थूलमाचष्टे स्थवयति। भारद्वाजीयास्तु पठन्ति, णाविष्ठवत् प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरविन्मतोर्लुक्कनर्थम् इति। स्रग्विणमाचष्टे स्रजयति। वसुमन्तमाचष्टे वसयति। युवानमाचष्टे यवयति। कन्यति। एतदुभयम् अपि उदाहरणमात्रम्, न परिगणनम्। प्रादयो ऽपि हीष्यन्ते, प्रियमाचष्टे प्रापयति।
TBD.
1160 भस्य टेर्लोप इष्ठेमेयस्सु. पृथोर्भावः प्रथिमा -.
1763 टेः। `इष्ठेमेयस्सु' इत्यनुवर्तते। `अल्लोपोऽनः' इत्यतो लोप इति च। तदाह– टेर्लोपः स्यादिष्ठेमेयस्स्विति। प्रथिमेति। पृथुशब्दादिमनिच्। चकार इत्। नकारादकार उच्चारणार्थः। ऋकारस्य रः, उकारस्य गुणं बाधित्वा टेर्लोपः। पार्थवमिति। इमनिजभावे `इगन्ताच्च लघुपूर्वा'दित्यण्। म्रदिमेति। मृदुशब्दादिमनिचि ऋकारस्य रः। `टेः' इति टिलोपश्च। मार्दवमिति। `इगन्ताच्चे'त्यण्।
–
TBD.