TBD.
नकारान्तस्य भस्य टेः लोपो भवति तद्धिते परतः। आग्निशर्मिः। औडुलोमिः। बाह्वादित्वादिञ् प्रत्ययः। नः इति किम्? सात्वतः। तद्धिते इति किम्? शर्मणा। शर्मने। नानतस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमि. तैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणाम् उपसङ्ख्यानं कर्तव्यम्। अत्र ये इन्नन्ताः तेषाम् इनण्यनपत्ये 6-4-164 इति प्रकृतिभावः प्राप्तः, ये तु अनन्ताः तेषाम् अन् 6-4-167 इति। सब्रह्मचारिणः इमे साब्रह्मचाराः, पीठसर्पिणः पैठसर्पाः। कलापिना प्रोक्तमधीयते कालापाः, कुथुमिनः कौथुमाः। तैतिलिजाजलिनौ आचार्यौ, तत्कृतो ग्रन्थः उपचारात् तैतिलिजाजलिशब्दाभ्याम् अभिधीयते, तं ग्रन्थमधीयते तैतिलाः, जाजलाः। शैशिकेष्वर्थेषु वृद्धत्वादत्र छः प्राप्नोति। एवं लाङ्गलाः। शैलालाः। शिखण्डिनः शैखण्डाः। सूकरसद्मनः सौकरसद्माः। सुपर्वणः सौपर्णाः। अश्मनो विकार उपसङ्ख्यानम्। अश्मनो विकारः आश्मः। अश्मनो ऽन्यः। चर्मणः कोश उपसङ्ख्यानम्। चार्मः कोशः। चार्मणो ऽन्यः। शुनः सङ्कोच उपसङ्ख्यानम्। शौवः सङ्कोचः। शौवनो ऽन्यः। अव्ययानां च सायंप्रतिकाद्यर्थम् उपसङ्ख्यानम्। के पुनः सायंप्रातिकादयः? येषाम् अव्ययानाम् अविहितष्टिलोपः, प्रयोगे च दृश्यते, ते सायंप्रातिकप्रकाराः ग्रहीतव्याः। सायंप्रातर्भवः सायंप्रातिकः। पौनःपुनिकः। बाह्यः। कौतस्कुतः। कालाट् ठञ् 4-3-11 इति ठञ्प्रत्ययः। ट्युट्युलौ तु नेष्येते। आरातीयः, शाश्वतिकः, शाश्वतः इत्येवम् आदिषु न दृश्यते टिलोपः।
TBD.
922 नान्तस्य भस्य टेर्लोपस्तद्धिते. उपराजम्. अध्यात्मम्..
671 नस्तद्धिते। `न' इति षष्ठ\उfffद्न्तम्। तेन भस्येत्यधिकृतं विशेष्यते, तदन्तविधिः। टेरिति सूत्रमनुवर्तते। `अल्लोपोऽनः' इत्यस्माल्लोप इति च। तदाह- नान्तस्येत्यादि। उपराजमिति। राज्ञः समीपमित्यर्थः। समीप्ये उपेत्यस्याव्ययीभावः। `अनश्च' इति टच्, सुब्लुक्, टिलोपः। उपराजशब्दाद्यथायथं सुप्, अम्भावः। टजन्तस्यैवाव्ययीभावसमासत्वाट्टचि परे अव्ययानां भमात्रे टिलोपाऽप्रवृत्तेः `नस्तद्धिते' इत्यारम्भः। अध्यात्ममिति। आत्मनीत्यर्थः। विभक्त्यर्थेऽव्ययीभावः। शेषं पूर्ववत्।
594 नास्तद्धिते। `न'इत्यनेन भस्येत्यधिकृतं विशेष्यते, विशेषणेन तदन्तविधिरत आह– नान्तस्य भस्येति। ननूपराजिमित्यत्र `नस्तद्धिते'इति व्यर्थम्, `अव्ययानां भमात्रे—' इति टिलोपेनैव सिद्धेः। न चाव्ययत्वं टज्विशिष्टे पर्याप्तमिति वाच्यम्, अव्ययीभावसंज्ञाया उपजीव्यत्वेन टचः पूर्वभागस्याप्यव्ययत्वानपायात्। अत्राहुः–भाष्ये लुङ्मुखस्वरोपचारेषु त्रिष्वेव कार्येषु अव्ययीभावस्याव्ययसंज्ञाविधानान्न दोष इति। युक्त चैतत्। अन्यथा उपशरदमित्यादौ टिलोपः प्रसज्येत। यद्यप्यडुत्तमस्य पिच्चेत्यत्र दीर्घोच्चारणेन स्वावयवेन पौर्वपर्यं नास्तीतिज्ञापितम्, `अ' डित्युक्तेऽपि तदादिग्रहणेन तद्विशिष्टस्याऽङ्गत्वादतो दीर्घो यञीति दीर्घसिद्धेः, तथाप्यह्नष्टखोरेवेति लिङ्गत्समासान्तेषु तन्नाश्रीयत इति बोध्यम्। आध्यायत्ममिति आत्मनि अध्यात्मम्। विभक्त्यर्थेऽव्ययीभावः।
TBD.