Table of Contents

<<6-4-144 —- 6-4-146>>

6-4-145 अह्नष् टखेरेव

प्रथमावृत्तिः

TBD.

काशिका

अहनित्येतस्य टखोरेव परतः टिलोपो भवति। द्वे अहनी समाहृते द्व्यहः त्र्यहः। द्वे अहनी अधीष्टो भृतो भूतो भावी वा द्व्यहीनः। त्र्यहीनः। अह्नां समूहः क्रतुः अहीनः। अह्नः समूहे खो वक्तव्यः। सिद्धे सति आरम्भो नियमार्थः। इह मा भूत्, अह्ना निर्वृत्तम् आह्निकम्। एवकारकरणम् विस्पष्टार्थम्। अह्नः एव टखोः इत्येवं नियमो न भविस्यति, आत्माध्वानौ खे 6-1-169 इति प्रकृतिभावविधानात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

779 अह्नष्टखोः। शेषपूरणेन सूत्रे व्याचष्टे–टिलोपः स्यादिति। टेरित्यनुवर्तते, `अल्लोपोऽनः' इत्यस्यमाल्लोप इति चेति भावः। `नस्तद्धिते' इत्येव सिद्धे नियमार्थमिदमित्या–नान्यत्रेति। एवकारस्तु `अह्न एव टखो'रिति विपरीतनियमव्यावृत्त्यर्थः। टखोरेवेति किम् ?। अह्ना निवृत्तम् आह्निकम्। `कालाट्ठञ' इत्यधिकारे `तेन निवृत्त'मिति ठञ्। टिलोपाऽभावादल्लोपः। टप्रत्यये उदाहरति–उत्तमाह इति। उत्तमं च तदहश्चेति विशेषणसमासः। `राजाहःसखिभ्यष्ट'जिति टच्। `अह्नष्टखोरेवे'ति टच्। अह्नष्टखोरेवे'ति प्रकृतसूत्रेण टिलोपः, `रात्राह्नाहाः पुंसी'ति पुंस्त्वम्। खे उदाहरति–द्वे अहनी भृत इति। अत्यन्तसंयोगे द्वितीया। भृतः=परिक्रीत इत्यर्थः। `द्व्यहीन' इत्यत्र प्रक्रियां दर्शयति–तद्धितार्थे द्विगुरिति। कोऽत्र तद्धित इत्यत आह–तमधीष्ट इत्यादि। तथाच द्व्यहन्शब्दात्खस्य ईनादेशे `अह्नष्टखोरेवे'ति टिलोपे `द्व्यहीन' इति रूपमित्यर्थः। नन्वत्र `अह्नोऽह्न एतेभ्यः' इत्याह्नादेशः कुतो न स्यात्। नच खे टिलोपविधिसामथ्र्यान्नाह्नादेश इति वाच्यम्, `अहीन' इत्यत्र खे टिलोपविधेश्चरितार्थत्वादिति चेन्न, समासान्ते पर एव#आह्नादेशविधानात्, प्रकृते तु समासान्तविधेरनित्यत्वात् `राजाहःसखिभ्यः' इति न टच्। यद्यपि `उत्तमाहः' इत्यत्र, `द्व्यहीन' इत्यत्र च `नस्तद्धिते' इत्येव टिलोपः सिद्धस्तथापि आह्निकमित्यादावावश्यकस्य नियमविधेर्विधिमुखेनापि प्रवृत्त्यभ्युपगमादिह तदुपन्यासः। `राजाहःसखिभ्यः' इति टच् स्यादित्याशङ्ख्याह-लिङ्गेति। अनित्यत्वादिति। समासान्तप्रकरणे लिङ्गविशिष्टपरिभाषा नेति `ङ्याप्प्रातिपदिकात्' इत्यत्र भाष्ये उक्तत्वादिति भावः। मद्रराज्ञीति। नच टचि सत्यपि `यस्येति चे'तीकारलोपे मद्रराज्ञशब्दात् टित्त्वान्ङीपि मद्रराज्ञीति निर्बाधमिति वाच्यं, टचि हि सति `भस्याऽढे तद्धिते' इति पुंवत्त्वे टिलोपे `मद्रराज्ञी'ति स्यादिति भावः।

तत्त्वबोधिनी

686 उत्तमाह इति। `सर्वैकदेशसङ्ख्याते'त्यत्र उत्तमशब्दस्याऽपाटदह्नोदेशो न। व्द्यहीन इति। समासान्तविधेरनित्यत्वान्न टच्। सति तु तस्मिन्नह्नादेशः प्रसज्येत। न च नान्तस्य खे परे टिलोपविधिसामथ्र्यान्न टजिति वाच्यम्, `अहीन'इत्यत्र तस्य सावकाशत्वात्। अनित्यत्वादिति। अत्र च लिङ्गं `शक्तिलाह्गलाङ्कुशे'त्यत्र घटीग्रहणम्। मद्रराज्ञीति। यद्यत्र टच् स्यात्तदा `भस्याऽढे—' इति पुंवद्भावे टिलोपे च मद्रराजीत्यनिष्टरूपं स्यादिति भावः।

Satishji's सूत्र-सूचिः

TBD.