Table of Contents

<<6-4-163 —- 6-4-165>>

6-4-164 इनण्यनपत्ये

प्रथमावृत्तिः

TBD.

काशिका

इन्नन्तमनपत्यार्थे अणि परतः प्रकृत्या भवति। साङ्कूटिनम्। सांराविणम्। सांमार्जिनम्। अभिविधौ भाव इनुण् 3-3-44), अणिनुणः (*5,4.15 इत्यण्। स्रग्विण इदम् स्राग्विणम्। अणि इति किम्? दण्डिनां समूहो दाण्डम्। अनुदात्तादेरञ् 4-2-44 इति अञ्प्रत्ययः। अनपत्ये इति किम्? मेधाविनो ऽपत्यं मैधावः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1227 इनण्यनपत्ये। इन्-अमीति छेदः प्रकृत्येति। `प्रकृत्यैका'जित्यतस्तदनुवृत्तेरिति भावः। टिलोपो नेति। अञि तु प्रकृतिभावाऽप्रवृत्तेष्टिलोपः स्यादिति भावः। यौवनमिति। `कनिन्युवृषितक्षी'त्यौणादिककनिन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः। ततः स्त्रियां `यूनस्ति'रिति तिप्रत्ययस्य प्रत्ययस्वरेणोदात्तत्वे सतिशिष्टस्वरेण युवतिशब्दस्यानुदात्तादित्त्वादञि प्राप्ते भिक्षादित्वादणि कृते सति `भस्याऽढे' इति पुंवत्त्वे ति प्रत्ययस्य निवृत्तौ `अन्' इति प्रकृतिभावाट्टिलोपाऽभावे `यौवन'मिति रूपम्। अञि तु प्रकृतिभावस्याऽप्रवृत्तेष्टिलोपः स्यादिति भावः। वस्तुतस्तु `भस्याऽढे तद्धिते' इत्यस्य अढे तद्धिते विवक्षिते सति ततः प्रागेव पुंवदित्यर्थः। ततश्च तद्धितोत्पत्तेः प्रागेव युवतिशब्दस्य पुंवत्त्वे तिप्रत्यस्य निवृत्तौ युवन्शब्दस्य कनिन्प्रत्ययान्तस्य नित्स्वरेणाद्युदात्तत्वादनुदात्तादित्वाऽभावादञभावे `तस्य समूहः' इत्यणि प्रकृतिभावाट्टिलोपाऽभावे यौवनमिति सिद्धमेवेति युवतिशब्दो भिक्षादिगणे प्रत्याख्यातो भाष्यकैयटयोरित्यलम्। शत्रन्तादिति। प्रत्ययस्वरेण मध्योदात्तत्वादनुदात्तादिरयं युवच्छब्दः। तत उगिल्लक्षङीपः पुवत्त्वेन निवृत्तौ युवच्छब्दादनुदात्तादेरञि यौवतमिति रूपमिति भावः।

तत्त्वबोधिनी

1003 यौवनमिति। युवतिशब्दस्यानुदात्तादित्वादञि प्राप्ते अणर्थमिह पाठः। पुंवद्भावात्तिप्रत्ययनिवृत्तिः। `अन्'इति प्रकृतिभावः। ननु `भस्याऽढे'इत्यत्र `अढे तद्धिते विवक्षिते पुंवद्भावः'इत्यभ्युपगमात्तद्धितोत्पत्तेः प्रागेव तिप्रत्ययनिवृत्तौ सत्यां `किन्युवृषी'ति कनिनन्ततया आद्युदात्तत्वादण् सिद्धएवेति चेत्। सत्यम्। अतएव भाष्ये मिक्षादिषु युवतिशब्दपाठः प्रत्याख्यातः। `इह युवतिशब्दपाठसामथ्र्यात्पुंवद्भावो ने'ति वृत्तिकारोक्तिरप्यत एव निरस्ता। नन्वेवं `गार्भिणं यौवतं गणे'इत्यादिप्रयोगा न सङ्गच्छेरन्नित्याशङ्क्याह— शत्रन्तादिति।

Satishji's सूत्र-सूचिः

TBD.