Table of Contents

<<6-4-131 —- 6-4-133>>

6-4-132 वाह ऊट्ः

प्रथमावृत्तिः

TBD.

काशिका

वाह इत्येवमन्तस्य भस्य ऊठ् इत्येतत् सम्प्रसारणं भवति। प्रष्ठौहः। प्रष्ठौहा। प्रष्ठौहे। दित्यौहः। दित्यौहा। दित्यौहे। एत्येधत्यूठ्सु 6-1-89 इति वृद्धिः। अथ किमर्थमूठ् क्रियते, सम्प्रसारणे एव कृते गुणे च वृद्धिरेचि 6-1-88 इति वृद्धौ सत्याम् सिद्धं रूपं भवति प्रष्ठौहः इति, अनकारान्ते चोपपदे वहेर्ण्विर्न दृश्यते? ज्ञापनार्थम् । एतज् ज्ञापयति, भवत्येषा परिभाषा ’असिद्धं बहिरङ्गम् अन्तरङ्गे (परि० ५०)’ इति। तस्यां हि सत्यां बहिरङ्गस्य सम्प्रसारणस्य असिद्धत्वातन्तरङ्गो गुणो न स्यात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

258 भस्य वाहः संप्रसारणमूठ्..

बालमनोरमा

वाह ऊठ्। `भस्ये'त्यधिकृतम्। `वसोः संप्रसारण' मित्यतः `संप्रसारण'मित्यनुवर्तते। तच्च ऊडित्यनेनान्वेति। तदाह-भस्येत्यादिना।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.