TBD.
प्राणिवाचिभ्यः प्रातिपदिकेभ्यो रजतदिभ्यश्च अञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। अणादिनाम् अपवादः। अनुदात्तादेः अञ् विहित एव परिशिष्टम् इह उदाहरणम्। प्राणिभ्यस्तावत् कापोतम्। मायूरम्। तैत्तिरम्। रजतादिभ्यः राजतम्। सैसम्। लौहम्। रजतादिषु ये ऽनुदात्तादयः पट्यन्ते रजतकण्डकरप्रभृतयस्तेभ्यो ऽञि सिद्धे पुनर्वचनं मयड्वाधनार्थम्। रजत। सीस। लोह। उदुम्बर। नीलदारु। रोहितक। बिभीतक। पीतदास। तीव्रदारु। त्रिकण्टक। कण्टकार। रजतादिः।
TBD.
–
1511 प्राणिरजतादिभ्योऽञ्। शौकंबाकमिति। शुकस्य बकस्य वा अवयवो विकारो वेत्यर्थः। `प्राणिना कुर्पूर्व'मित्याद्युदात्तत्वात् `अनुदात्तादेश्चे'त्यञो न प्राप्तिः। राजतमिति। अनुदात्तादित्वादञि सिद्धे मयड्बाधनार्थमञ्विधिः।
1175 प्राणि। अनुदात्तादेरञः सिद्धत्वात्परिशिष्टमिहोदाहरणं। तदाह—शौकं बाकमिति। शुकबकशब्दौ `प्राणिनां कुपूर्वाणा'मित्याद्युदात्तौ। राजतमिति। रजत सीस उदुम्बर कण्ट कारेत्यादयो रजतादयः। तेषु अनुदात्तादीनां पुनः पाठो मयड्बाधनार्थः। अन्यथा हि परत्वान्मयट् स्यादेव।
TBD.