TBD.
पतिशब्दे उत्तरपदे ऐश्वर्यवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरं भवति। गृहपतिः। सेनापतिः। नरपतिः। धान्यपतिः। गेहे कः 3-1-144 इति प्रकृतिस्वरेण अन्तोदात्तो गृहशब्दः। सह इनेन वर्तते इति बहुव्रीहौ प्रकृत्या पूर्वपदम् 6-2-1 इति सेनाशब्द आद्युदात्तः। नृ\उ0304 नये एतस्मादृदोरप् 3-3-57 इति अप्प्रत्ययान्त आद्युदात्तो नरशब्दः। धान्यम् अन्तस्वरितम्। ऐश्वर्यम् इति किम्? ब्राह्मणो वृषलीपतिः। वृषल्या भर्ता इत्यर्थः।
TBD.
–
–
–
TBD.