Table of Contents

<<3-3-56 —- 3-3-58>>

3-3-57 ऋदोरप्

प्रथमावृत्तिः

TBD.

काशिका

ऋकारान्तेभ्यः उवर्णान्तेभ्यः च अप् प्रत्ययो भवति. घञो ऽपवादः. पित्करणं स्वरार्थम्. करः गरः. शरः. उवर्णान्तेभ्यः यवः. लवः. पवः. दकारो मुखसुखार्थः. मा भूत्तादपि परः तपरः.

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

859 ॠवर्णान्तादुवर्णान्ताच्चाप्. करः. गरः. यवः. लवः. स्तवः. पवः. (घञर्थे कविधानम्). प्रस्थः. विघ्नः..

बालमनोरमा

तत्त्वबोधिनी

1542 ऋदोरप्। ॠच्च उच्च तयोः समाहारे सौत्रं पुंस्त्वम्। `ॠदो'रित्ययं न तकारः, किं तर्हि ?। दकारः। `निरभ्योः पूल्वः' इत्यपवादतया घञ्विधानाज्ज्ञापकाद्दीर्घान्तादप्युदाहरति–लवः। पव इति। घञचोरपवाद इति। `निश्चय' इत्यत्राऽचः प्राप्तिरन्यत्र घञ इति विवेकः। हस्तादाने तु प्रपूर्वकाच्चिनोतेर्घञुदाह्मतः।

Satishji's सूत्र-सूचिः

TBD.