Table of Contents

<<6-1-85 —- 6-1-87>>

6-1-86 षत्वतुकोरसिद्धः

प्रथमावृत्तिः

TBD.

काशिका

षत्वे तुकि च कर्तव्ये एकदेशो ऽसिद्धो भवति, सिद्धकार्यं न करोति इत्यर्थः। असिद्धवचनम् आदेशलक्षणप्रतिषेधर्थम्, उत्सर्गलक्षणभावार्थं च। को ऽसिचतित्यत्र एङः पदान्तादति 6-1-109 इति एकादेशस्य परं प्रत्यादिवद्भावातपदादेरिण उत्तरस्य आदेशस्य सकारस्य षत्वं प्राप्नोति, तदसिद्धत्वान् न भवति। को ऽस्य, यो ऽस्य, को ऽस्मै, यो ऽस्मै इत्येकादेशस्य असिद्धत्वातिणः इति षत्वं न भवति। तुग्विधौ अधीत्य, प्रेत इत्यत्र एकादेशस्य असिद्धत्वात् ह्रस्वस्य पिति कृति तुक् 6-1-71 इति तुग् भवति। सम्प्रसारनङीट्सु प्रतिषेधो वक्तव्यः। सम्प्रसारणे ब्रह्महूषु। सम्प्रसारणपूर्वत्वस्य असिद्धत्वात् षत्वं न प्राप्नोति। ङौ वृक्षे च्छत्रम्, वृक्षे छत्रम्। इटि अपचे च्छत्रम्, अपचे छत्रम्। आद्गुणस्य असिद्धत्वाद् ह्रस्वलक्षणो नित्यो ऽत्र तुक् प्राप्नोति, दीर्घात्, पदान्ताद् वा 6-1-76 इति तुग्निकल्प इष्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1601 षत्वतुकोः। प्रासङ्गिकषत्वविषयमुदाहरति– कोऽसिचदिति। को– असिचदिति स्थिते `एङः पदान्तादती'ति पूर्वरूपमेकादेशः। तस्य `अन्तादिवच्चे'ति परादिवत्त्वेन `सात्पदाद्यो'रिति निषेधाऽभावादिणः परत्वेन षत्वं प्राप्तमेकादेशस्याऽसिद्धत्वे सति अकारेण व्यवधानादिणः परत्वाऽभावान्न भवति। प्रकृतं ल्यपि कार्यमुदाहरति- - अधीत्येति। विधायेति। दधातेहिर्न।

Satishji's सूत्र-सूचिः

Video

वृत्तिः षत्वे तुकि च कर्तव्ये, एकादेशशास्त्रमसिद्धं स्यात् । When the substitution ‘ष्’ or the augment ‘तुँक्’ is to be performed, a single replacement (in place of the preceding and following letter) is treated as if it has not occurred.

उदाहरणम् – कोऽसिचत् । Note: असिचत् is derived from the verbal root √सिच् (षिचँ क्षरणे ६. १७०). The विवक्षा is लुँङ्, प्रथम-पुरुष:, एकवचनम्। The सूत्रम् 3-1-53 लिपिसिचिह्वश्च prescribes the substitution ‘अङ्’ in place of ‘च्लि’।

कस् + असिचत्
= करुँ + असिचत् 8-2-66
= क उ + असिचत् 6-1-113
= को + असिचत् 6-1-87
= कोऽसिचत् 6-1-109. As per 6-1-85, we may treat कोऽसिचत् as क् ओसिचत् and hence 8-3-59 would apply here. But now 6-1-86 intervenes and says that when it comes to a possible substitution by the letter ‘ष्’, the single substitute ‘ओ’ (in place of ‘ओ + अ’) is to be treated as if it has not occurred. Thus 8-3-59 still sees को + असिचत् and the substitution by the letter ‘ष्’ cannot take place.

उदाहरणम् – गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान्‌ । जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ (गीता 14-20) अतीत्य is derived from the verbal root √इ (इण् गतौ २. ४०) preceded by the उपसर्ग: ‘अति’।

इ + क्त्वा 3-4-21
‘इ + क्त्वा’ is compounded with ‘अति’ using the सूत्रम् 2-2-18 कुगतिप्रादयः। अति + इ + क्त्वा 2-2-18
= अति + इ + ल्यप् 7-1-37, 1-1-55
= अति + इ + य 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 prevents 7-3-84 from applying.
= अती + य 6-1-101. Since the affix ‘य’ is no longer preceded by a short vowel, 6-1-71 would not apply here. But now 6-1-86 intervenes and says that when it comes to a possible addition of the augment ‘तुँक्’, the single substitute ‘ई’ (in place of ‘इ + इ’) is to be treated as if it has not occurred. Thus 6-1-71 still sees अति + इ + य and the addition of the augment ‘तुँक्’ does take place.
= अती तुँक् + य 6-1-71, 1-1-46
= अतीत्य 1-3-2, 1-3-3, 1-3-9. As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being an affix with the designation of कृत् (by 3-1-93). Hence ‘अतीत्य’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-40.