Table of Contents

<<8-4-20 —- 8-4-22>>

8-4-21 उभौ साभ्यासस्य

प्रथमावृत्तिः

TBD.

काशिका

साभ्यासस्य अनितेः उपसर्गस्थान् निमित्तादुत्तरस्य उभयोः नकारयोः णकार आदेशो भवति। प्रणिणिषति। प्राणिणत्। पराणिणिषति। पराणिणत्। पूर्वत्रासिद्धीयम् अद्विर्वचने इत्येतस्मिन् सति पूर्वेण एव कृतणत्वस्य द्विर्वचने कृते सिद्धम् एतदन्तरेण अपि वचनम्? एतत् तु नाश्रयितव्यम् इति सूत्रम् इदम् आरभ्यते। तेन ञौजढतिति सिद्धं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

433 उभौ साभ्यासस्य। अनितेरित्यनुवर्तते। `अन प्राणने' इति धातोरित्यर्थः। `रषाभ्यां नो णः' इत्यधिकृतम्। `उपसर्गादसमासेऽपी'त्यत उपसर्गादित्यनुवर्तते। तदाह – साभ्यासस्येत्यादिना। निमित्ते सतीति। उपसर्गस्थे रेफे सतीत्यर्थः। प्राणिणदिति। प्र अन् इ अ त् इति स्थिते `अनिते' रिति णत्वस्याऽसिद्धत्वान्नीत्यस्य द्वित्वे उत्तरखण्डे नकारस्याभ्यासनकारेण व्यवदानाण्णत्वे अप्राप्ते उभयोर्नकारयोरनेन णत्वमित्यर्थः। न च `पूर्वत्राऽसिद्धीयमद्विर्वचने' इति निषेधाद्द्वित्वे कर्तव्ये णत्वस्याऽसिद्धत्वविरहेण परत्वात्कृते णत्वे ततः पश्चाद्द्वित्वे `प्राणिण'दिति सिद्धमिति वाच्यम्, अत एव `पूर्वत्राऽसिद्धीयमद्विर्वचने' इत्यस्याऽनित्यत्वविज्ञानात्।तेन `ऊर्णुनावे'त्यत्र णत्वात् पूर्वमेव नुशब्दस्य द्वित्वे कृतेऽभ्यासोत्तरखण्डे णत्वाऽबावसिद्धिरित्यन्यत्र विस्तरः।

तत्त्वबोधिनी

377 उभौ सा। `रषाभ्याटमिति सूत्रे `न'इति षष्ठ\उfffद्न्तं प्रथमाद्विवनान्ततया विपरिणम्यत इत्याह– उभौ नकाराविति। ननु `साऽभ्यास्ये' त्युक्त्या उभयोरपि भविष्यतीत्युभौग्रहणं व्यर्थमिति चेत्, अत्राहुः– साहित्यमात्रं विवक्षितं न तुल्ययोग इत्यभ्युपगमे द्वयोर्युगपन्न सिध्येदित्युभौग्रहणम्। न च तुल्ययोगविवक्षायां `तेन सहेति तुल्योगे' इति समासोऽत्र न स्यादिति शङ्क्यं, `तुल्ययोगग्रहणं प्रायिकं, सकर्मकः सलोमक' इत्युक्तत्वादिति। कैयटे तु- - `उभावित्यस्मिन्नसति साभ्यासस्याऽनितेर्णो भवतीत्युच्यमाने वचनसामथ्र्याच्च `पूर्वत्रासिद्धीयमद्विर्वचने' इत्यनाश्रीयमामे ?कृतणत्वस्य द्विर्वचने कृते अनन्तरस्याऽनितेरिति पूर्वेणैव णत्वस्य सिद्धत्वाद्व्यवहितनकारार्थमिदं णत्वं स्यात्, अनन्तरस्य तु तक्रकौण्डिन्यन्यायेन न स्यादिति उभावित्युच्यते' इति स्थितम्। साभ्यासस्येति किम् ?। प्राण् नमति। असत्यस्मिन् `अनिते'रिति षष्ठी संबन्धसामान्ये स्यात्।ततश्चानन्तर्यादिसंबन्धोऽपि गृह्रेत। सति त्वस्मिन्नवयवावयविभावसंबन्धो लभ्यते। अतोऽर्थवत्साभ्यासग्रहणम्। यदि त्विष्टानुरोधेनाऽनितेरिति षष्ठीजनम्। इह पूर्वं णत्वं कृत्वा द्वित्वे क#ऋते प्राणिणदित्यादिसिद्धावयमारम्भः `पूर्वत्रासिद्धीयमद्विर्वचने'इत्स्याऽनित्यत्वज्ञापनार्थः। तेन ऊर्णुनावेत्यत्र णत्वात्पूर्वमेव नुशब्दस्य द्वित्वादभ्यासोत्तरखण्डे णत्वाऽभावः सिद्धः।

Satishji's सूत्र-सूचिः

TBD.