Table of Contents

<<6-1-1 —- 6-1-3>>

6-1-2 अजादेर् द्वितीयस्य

प्रथमावृत्तिः

TBD.

काशिका

प्रथमद्विर्वचनापवादो ऽयम्। अजादेर् द्वितियस्य एकचो द्विर्वचनम् अधिक्रियते। अचादिर् यस्य धातोः तदवयवस्य द्वितीयस्य एकाचो द्वे भवतः। अटिटिषति। अशिशिषति। अरिरिषति। अर्तेः स्मिपूङ्रञ्ज्वशां सनि 7-2-74 इति इट् क्रियते। तस्मिन् कृते गुणे च रपरत्वे च द्विर्वचने ऽचि 1-2-59 इति स्थानिवद्भावः प्राप्नोति। तत्र प्रतिविधानं द्विर्वचननिमित्ते ऽचि इति उच्यते। न च अत्र द्विर्वचननिमित्तमिट्। किं तर्हि? कार्यी। न च कार्यी निमित्तत्वेन अश्रीयते। तथा हि क्ङिनिमित्तयोर् गुणवृद्ध्योः प्रतिषेधो विधीयमानः शयिता इत्यत्र न भवति, न हि कार्यिणः शीङो गुणं प्रति निमित्तभावः इति। अत्र केचिदजादेः इति कर्मधारयात् पञ्चमीम् इच्छन्ति। अच् च असौ आदिश्च इत्यजादिः, तस्मातजादेरुत्तरस्य एकाचो द्वे भवतः इति। तेषां द्वितीयस्य इति विस्पष्टर्थं द्रष्टाव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

21 यदि बहुव्रीहेः षष्ठी तदा इन्द्रमात्मन इच्छति इन्द्रीयति, इन्द्रीयितुमिच्छति इन्दिद्रीयिषतीत्यत्र दकारस्य `नन्द्राःर' इति द्वित्वनिषेधः स्यात्, किंतु अञ्चासावादिश्चाऽजादिस्तस्मादिति कर्मधारयादेषापञ्चमी।

Satishji's सूत्र-सूचिः

TBD.